This page has not been fully proofread.

३१८
 
काव्यमाला ।
 
हे नाथ स्वामिन्, त्वं चेतसि निजे वचो मदीयं कुरु । यतस्तव विभोर्गीर्वाणी द-
यिता वल्लभा अतो न तवाहं चोदयिता प्रेरयिता भवामि । अथ वा पक्षान्तरे । हे म
हेश, मतया दृष्टया पृथुकामतया घनाभिलाषत्वेन पृथुकाः शिशवः किं नारटन्ति कं न
वा क्षोभयन्ति ॥
 
विषयैर्मुखे वरद कामधुरैर्विवशीकृतं घटितकामधुरैः ।
 
भज मां महेश्वर मुदा रहितं दिश भाषितामृतमुदारहितम् ॥ ६ ॥
 
हे वरद शंभो, घटिता संघटिता कामधुरा अभिलाषभारो यैस्ते तादृशास्तैः । तथा
मुखे प्रारम्भ एव कामधुरैरोषन्मधुरैर्विषयैः शब्दादिभिर्वशीकृतं विलीकृतम् तथा मुदा
आनन्देन रहितं च मां भज । आत्मवशं कुर्वित्यर्थः । तथा हे विभो, उदारं च हितं च
भाषितामृतमभयवचनं दिश देहि ॥
 
विजितं मया जगदमोहतया न रुषा क्षतो मम दमो हतया ।
तृणवत्सुरक्षितिधरोऽपि तया विहितो महेश हृदि रोपितया ॥ ७ ॥
 
हे विभो, मया जगद्विश्वं विजितम् । कया । अमोहतया अविद्यमानो मोहोऽज्ञानं
यस्य तद्भावेन । ज्ञातृत्वेनेत्यर्थः । तया हतया रुषा मम मत्को दमः शमो न क्षतो न
बाधितः । हे महेश, हृदि मनसि रोपितया दृढीकृतया तया सुरक्षितिधरोऽपि सुरगिरि-
मेंरुरपि तृणवद्विहितः ॥
 
मरुतायतेव मलयाचलतः क्षपिता धृतिः कमलया चलतः ।
 
तदिमां प्रसादनपरां करुणां शृणु मे गिरं कुरु परां करुणाम् ॥ ८ ॥
 
हे विभो, मलयाचलतो मलयगिरेरायता आगच्छता मरुता वायुनेव चलतोऽदृढस्य
कम्पमानस्य मम धृतिः स्थितिः क्षपिता निवारिता । तत्तस्मात्कारणात्प्रसादनपरामा-
राधनपरां करुणां दोनामिमां मे गिरं वाणीं शृणु परां करुणां कृपां कुरु ॥
 
भवतः प्रसादमधुरामहतां दृशमीयुषां शमधुरा महताम् ।
धृतिमेत्यपास्य च रमा लसतां सुलभत्वमेति चरमालसताम् ॥ ९ ॥
 
हे विभो, प्रसादेन प्रसन्नतया मधुरा रम्या तां प्रसादमधुराम् । तथा अहतां न कु
त्रापि प्रतिहता तादृशीं भवतः स्वामिनो दृशं दृष्टिमीयुषां प्राप्नुवतां महतामुत्तमानां श
मधुरा शमभरो धृतिं स्थितिमेति तथा लसतां क्रीडतां महतामुत्तमानां रम लक्ष्मीः
सुलभत्वमेति प्राप्नोति च । किं कृत्वा । चरमालसतां चरमा अधमा चासावलसता ता-
मपास्य दूरीकृत्य ॥
 
समरे विकीर्णगजराजघटे बत तस्य शक्तिरजरा जघटे ।
तव येन सेवनविधौ तरसा मतिरर्पितान्यभविधौतरसा ॥ १० ॥
 
Digitized by Google