This page has not been fully proofread.

२५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
पञ्चविंशं स्तोत्रम् ।
 
अथात श्चित्रकाव्यभेदेनैव यमकेन रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रमारभमाण आह -
किल यस्य कल्पितमहोदयया हृदयं समाश्रितमहो दयया ।
विभवं यतश्च परमाप दिवः प्रभुरेष पातु परमापदि वः ॥ १ ॥
 
३१७
 
कल्पितो महानुदयो मोक्षलक्ष्मीप्राप्तिलक्षणो यया तादृश्या दयया कृपया यस्य स्व-
तन्त्रस्य प्रभोर्हृदयं मनः सम्यगाश्रितम् । यतो यस्मात्प्रभोदिवः स्वर्गस्य प्रभुरिन्द्रः परं
विभवं स्वर्लोकाधिपत्यमाप प्राप। एष परमेश्वरो वो युष्मान्परमापदि जन्मजरामरणरू-
पायामापदि पातु रक्षतु ॥
 
तव सेवकस्य परमेश मनः कुरुते न हन्तुमपि मे शमनः ।
भगवन्नतो वपुरनीरसदृक्तव नौमि सिद्धधुनिनीरसदृक् ॥ २ ॥
 
हे भगवन्परमैश्वर्यादिषट्कलाञ्छित, न नीरसा शान्तरसरहिता दृग्यस्य सोऽनीरसह-
गहं सिद्धधुनिनीरसदृक् । धुनिरिति 'कृदिकारात्' इति धुनिः धुनी च सिद्धधुन्या
देवनद्या नीरं तोयं तस्य सदृक्तुल्यं गङ्गासलिलघवलं तव वपुरतो हेतोर्नौमि । अतः कुत
इत्याह – हे परमेश, शमनो यमस्तव सेवकस्य त्वद्भक्त्यासक्तचित्तस्य मे मम कर्मभू-
तस्य हन्तुमपि मनो न कुरुते ॥
 
स्त्रगिवार्ष्यते कलितसारसना त्वयि गीर्यया जयति सा रसना ।
त्वयि यन्महेश वरदेऽवहितं हृदयं तदेव वरदेव हितम् ॥ ३ ॥
 
हे महेश, हे वरदेव सर्वदेवेभ्योऽप्युत्कृष्टदेव, कलितं प्रथितं सारसनं मेखलाबन्धश्चि-
त्रकाव्यप्रसिद्धो यस्यां सा तादृशी गीर्वाणी स्रगिव मालेव कलितसारसना प्रथितबन्ध-
नरज्जुर्यया रसनया जिह्वया त्वय्यर्प्यते सा रसना जयति सर्वोत्कृष्टा भवति । 'मेखलायां
सारसनमुरत्ने च नपुंसकम्' इति मङ्गः । तथा हे महेश, यद्धृदयं मनस्त्वयि विभाववहि-
तमेकाग्रं तदेव हितमनुकूलं भवति ॥
 
तव हक्सुधाकरकलोपमिता पतिता विपत्तदनुलोपमिता ।
 
भगवन्डशैव कमला भवतः सहसाङ्कमेति शमलाभवतः ॥ ४ ॥
 
हे भगवन् शंभो, सुधाकरकलोपमिता चन्द्रकलातुल्या विमलाशीतला च पतिता व
द्भक्तजने तदनु भवदृष्टिपातानन्तरं विपत्कालकर्णी च लोपं नाशमिता प्राप्ता । हे विभो,
भवतो दृशैव दृष्टयैव सहसा त्वरितमेव कमला मोक्षलक्ष्मीरङ्कमेति । कस्य । शमलाभव-
तः शमस्य शान्तेर्लाभो विद्यते यस्य स तादृशस्य भक्तजनस्य ॥
 
कुरु नाथ चेतसि वचो दयिता तव गीरहं न तव चोदयिता ।
 
अथवा महेश पृथुकामतया न किमारटन्ति पृथुका मतया ॥ ५ ॥
 
Digitized by Google