This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
म्परा पङ्क्तिर्येन तं परमुत्कृष्टं भवं श्रीशिवं भजामि सेवे । किं कृत्वा । भवं संसारं विजित्य ।

किंभूतं भवम् । कृत्यास्त्कर्मण: शुभाशुभात्प्रभव उत्पत्तिर्यस्य तादृशम् ॥

 
मलक्षयमलक्षयं भव भवत्प्रसादादहं
 

शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया ।

समुद्धर समुद्धर व्यसनसंकटादर्कजः
 

समक्षमसमक्षमः स्पृशति चेन्न जिद्ह्वेषि किम् ॥ २७ ॥

 
हे भव शंभो, भवत्प्रसादात्तवैव प्रसादान्मलानामाणवमायीयकार्माणां त्रयाणां क्षयस्त-

मलक्षयमज्ञासिषम् । हे शिव कैवल्यप्रद, अतो हेतोरयं तत्र स्तवो मया प्रकर्षेण विहितः

प्रविहितः । किंभूतः स्तवः । शिवः कल्याणकृत् । अत्र 'शिवस्तव' इत्यत्र विसर्गाभा-

वेऽपि यमकादौ न दोषः । तदुक्तं प्राक् – 'न विशेषो विसर्गस्य भवेच्च सदसत्त्वयोः '

इति । हे हर समस्तदुरितहर, मामित्यर्थात् । त्वं मामस्माद्व्यसनानां जन्मजरादीनां सं-

कटस्तस्मात्समुद्धर । त्वं किंभूतः । समुत् सह मुदा परमानन्देन वर्तते यः । हे दयालो,

असमा न समा शुभाशुभविषये क्षमा यस्य स तादृगसमक्षमः । अर्कजो यमस्तव विभोः

समक्षं पुरतो यदि मां स्पृशति बलान्नेतुमभिलषति चेत्तर्हि त्रिजगदधीशोऽपि दीनदयालुः

किं न जिद्ह्वेषि किं न लज्जसे ॥
 

 
सन्त्यन्याः कृतिनामनामय गिरः का नाम नामन्थरा
 

न ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते ।

वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा-

त्तन्मन्ये महिमानमानयति ते स्थेमानमान्दकृत् ॥ २८ ॥

 
अविद्यमाना आमयाः षट् शीताद्या यस्य स तस्यामन्त्रणं हे अनामय, कृतिनां म
-
नीषिणां गिरोऽमन्थरा अतिप्रगल्भा गङ्गाप्रवाहवन्निःसरन्त्यश्चान्याः का नाम न सन्ति ।

अपि तु सन्त्येव । तथा वास्तवा वस्तुतत्त्वभूतास्तव स्तवाः के वा न ज्ञानां जानन्तीति

ज्ञास्तेषां मनीषिणां हृदि मुदं परमानन्दं न तन्वते । अपि तु तन्वत एव । अथ स्वमु

द्दिश्याह कविः——वागेषेत्यादि । अतिशयेन साध्वसं भयं परं पारमत्र कथं गमिष्यामीति

रूपं भयं यत्र स तादृग्योऽध्वा मार्गस्तत्र पतिता लेत्वेषा मदीया वाग्यद्भवत्स्तुत्युद्योगे साधु

असाधु वा पूर्वोक्तप्रकारेणाभ्यधात् अहं मन्ये तदभिधानं कर्तृ ते तव महिमानं माहा-

त्म्यं स्थेमानं दार्ढ्यमानयति । त्वन्माहात्म्यमेव दृढीकरोतीत्यर्थः । तत्कीदृशम् । आन

न्दकृत् । सहृदयानां श्रोतॄणां परमानन्दप्रदमित्यर्थः ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरा जानक श्रीरत्नकण्ठ विरचितया लघुपश्ञ्चिकया समेतं

काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

[^१]
द्विपदयमकस्तोत्रं चतुर्विंशम् ।
 

 
[^
]. 'द्विर्यमक' ख.
 
Digitized by Google