This page has been fully proofread once and needs a second look.

२४ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
येन सतां विपदानयनं दुरितमदभ्रमहारि ।
 

दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ २२ ॥
 
३१५
 

 
हे विभो, विपदो विपत्तीरानयतीति विपदानयनमदभ्रं नं सतां सज्जनानां दुरितं

येन नयनेन नेत्रेण कदापि महाभाग्योदयवशात्क्षिप्तेन भवता विभुना अहारि दूरीकृ

तम् । हे दयालो, मदनेन कामेन मदेन च यो भ्रमः अनित्याशुच्यादिषु नित्यशुच्या-

दिभ्रमस्तं हरतीति तादृशं नयनं नेत्रं विशदं निर्मलं मयि विषये दिश देहि ॥
 

 
जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन ।
 

इममपि किं न जनं दयसे तेन तुषारसितेन ॥ २३ ॥
 

 
हे विभो, तिमिरमविद्यापर्यायमज्ञानं तिमिरं च बाह्यं मुष्णातीति तिमिरमुट् तेन र
-
सितेन शब्देन वाक्यरूपेण यद्यखिलं जगत् शिवादिक्षित्यन्तं नन्दयसे प्रमोदयसि तर्हि

तुषारवत्प्रालेयवत्सितेन शुभ्रेण तेन शब्देनेमं जनं मल्लक्षणं किं न दयसे किं नानुकम्पसे ॥

 
दुरितहृतौ विषसादकरः क्वापि न ते रमणीयः ।
 

अपि सभयं विषसाद करः शमयतु घोरमणीयः ॥ २४ ॥
 

 
हे विभो, रमणीयो रम्यस्ते तव करो हस्तो दुरितहृतौ भक्तिप्रह्वजनदुरितहरणे क्वापि

न विषसाद विषण्णोऽभूत् स तव करो घोरं कठिनं अणीयोऽतितुच्छमाकस्मिकं भय-

मपि शमयतु । किंभूतः करः । विषस्य कालकूटारूख्ययस्य निगलनसमयेऽदनेनावसादं क-

रोतीति तादृशः । अपिः प्रश्ने वा ॥
 

 
भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् ।
 

मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥ २५ ॥
 

 
हे महिताभ । महिता पूजिता आभा दीप्तिर्यस्य तस्य संबोधनम् । यतः कारणात्स-

र्वस्य जगतो भयहरणे जन्मजरामृतित्रासहरणे जातरसस्य भावो जातरसत्वं प्रथयसि

अतो मामपि महाभयतोऽतिसंकटजन्मजरामृतित्रासात्पाहि । अत्र कातरसत्त्वमित्यत्र

द्वितकारत्वाभावेऽपि चित्रकाव्ये यमकादौ न दोषः । तथाहि – 'यमकश्लेषचित्रेषु द-

न्त्यौष्ठथठ्यवबकारयोः । न भेदो नणयोश्चैव न नकारमकारयोः ॥ हलः परस्य चैकस्य व्यञ्ज-

नस्य द्वयोरपि । न विशेषो विसर्गस्य भवेच्च सदसत्त्वयोः ॥' इति ॥
 

अथेदानीमेतस्य स्तोत्रस्योपसंहारार्थं वृत्तभेदेन श्लोकत्रयमाह
-
 

 
भजाभि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् ।
 

विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥ २६ ॥
 

 
कुनयं कुत्सितं नयं श्रीशिवशासनमपास्यान्थमार्गानुसृतिरूपमन्तं नयन् त्यजन् अय-

महं मायया छद्मना पार्थानुग्रहाय शबरं किरातरूपम् । तथा वरमुत्कृष्टं वरं देवाद्यभि-

लषितं वस्तु दिशन्तं वितरन्तम् । तथा विखण्डिता क्लेशानामविद्यादीनां पश्ञ्चानां पर-
Digitized by Google