2023-02-23 21:27:51 by ambuda-bot
This page has not been fully proofread.
२४ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
येन सतां विपदानयनं दुरितमदभ्रमहारि ।
दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ २२ ॥
३१५
हे विभो, विपदो विपत्तीरानयतीति विपदानयनमदभ्रं धनं सतां सज्जनानां दुरितं
येन नयनेन नेत्रेण कदापि महाभाग्योदयवशात्क्षिप्तेन भवता विभुना अहारि दूरीकृ
तम् । हे दयालो, मदनेन कामेन मदेन च यो भ्रमः अनित्याशुच्यादिषु नित्यशुच्या-
दिभ्रमस्तं हरतीति तादृशं नयनं नेत्रं विशदं निर्मलं मयि विषये दिश देहि ॥
जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन ।
इममपि किं न जनं दयसे तेन तुषारसितेन ॥ २३ ॥
हे विभो, तिमिरमविद्यापर्यायमज्ञानं तिमिरं च बाह्यं मुष्णातीति तिमिरमुट् तेन र
सितेन शब्देन वाक्यरूपेण यद्यखिलं जगत् शिवादिक्षित्यन्तं नन्दयसे प्रमोदयसि तर्हि
तुषारवत्प्रालेयवत्सितेन शुभ्रेण तेन शब्देनेमं जनं मल्लक्षणं किं न दयसे किं नानुकम्पसे ॥
दुरितहतौ विषसादकरः क्वापि न ते रमणीयः ।
अपि सभयं विषसाद करः शमयतु घोरमणीयः ॥ २४ ॥
हे विभो, रमणीयो रम्यस्ते तव करो हस्तो दुरितहतौ भक्तिप्रह्वजनदुरितहरणे क्वापि
न विषसाद विषण्णोऽभूत् स तव करो घोरं कठिनं अणीयोऽतितुच्छमाकस्मिकं भय-
मपि शमयतु । किंभूतः करः । विषस्य कालकूटारूयस्य निगलनसमयेऽदनेनावसादं क-
रोतीति तादृशः । अपिः प्रश्ने वा ॥
भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् ।
मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥ २५ ॥
हे महिताभ । महिता पूजिता आभा दीप्तिर्यस्य तस्य संबोधनम् । यतः कारणात्स-
र्वस्य जगतो भयहरणे जन्मजरामृतित्रासहरणे जातरसस्य भावो जातरसत्वं प्रथयसि
अतो मामपि महाभयतोऽतिसंकटजन्मजरामृतित्रासात्पाहि । अत्र कातरसत्त्वमित्यत्र
द्वितकारत्वाभावेऽपि चित्रकाव्ये यमकादौ न दोषः । तथाहि – 'यमकश्लेषचित्रेषु द-
न्त्यौष्ठथवबकारयोः । न भेदो नणयोश्चैव न नकारमकारयोः ॥ हलः परस्य चैकस्य व्यञ्ज-
नस्य द्वयोरपि । न विशेषो विसर्गस्य भवेच्च सदसत्त्वयोः ॥' इति ॥
अथेदानीमेतस्य स्तोत्रस्योपसंहारार्थ वृत्तभेदेन श्लोकत्रयमाह
-
भजाभि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् ।
विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥ २६ ॥
कुनयं कुत्सितं नयं श्रीशिवशासनमपास्यान्थमार्गानुसृतिरूपमन्तं नयन् त्यजन् अय-
महं मायया छद्मना पार्थानुग्रहाय शबरं किरातरूपम् । तथा वरमुत्कृष्टं वरं देवाद्यभि-
लषितं वस्तु दिशन्तं वितरन्तम् । तथा विखण्डिता क्लेशानामविद्यादीनां पश्चानां पर-
Digitized by Google