This page has not been fully proofread.

३१४
 
काव्यमाला ।
 
इयमखिलेतरजातिमतां
 
जयति जनिः प्रथमा नः ।
 
सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ १७ ॥
 
अखिला इतरा ब्राह्मणजातेरन्याः क्षत्रादिजातयस्तद्वतामखिलेतरजातिमतां मध्ये ।
निर्धारणे षष्ठी । नोऽस्माकं सा प्रथमजातिर्ब्राह्मणजातिर्जयति सर्वोत्कृष्टा भवति । सा
केत्याह – यत्र ब्राह्मणजातौ हृदि चेतसि सततं प्रथमान: प्रकाशमानः अर्थादस्माकं म
तामभिमतां सेव्यभुवं विभुः स्वामी जगदीश एति ॥
 
तुम्यमयं शितिनाल सतां वरद करोमि नमोऽहम् ।
 
शमय महेश महालसतां येन भजामि न मोहम् ॥ १८ ॥
 
हे शितिनाल नीलगल श्रीशंभो, हे सतां कृतिनां वरद, अयमहं तुभ्यं स्वामिने नमः
कर्मभूतं करोमि । नमःशब्दोऽव्ययं नाम चेति वैयाकरणाः । हे महेशपरमेश, ममालस-
तामुदासीनत्वं भवद्भक्तिविषये शमय । तत्कुत इत्याह - येन हेतुनाहं मोहमज्ञानं न
 
भजामि ।
 
भजसि यया किल कामदया नतजनमीश समस्तम् ।
 
सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ १९ ॥
 
हे ईश, हतो दग्धः कामो येन स तस्य संबोधनं हे हतकाम, अखिलान्कामानभि
लषितानि ददातीति तादृश्या अखिलकामदया यया दयया कृपया समस्तं नतजनं भ
जसि । दयापात्रीकुरुष इत्यर्थः । सा ते दया कृपा मम वैशसं दुःखं जन्मजरामरणोत्य-
मस्तं गमयतु नाशयत्वित्यर्थः ॥
 
येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण ।
 
तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ २० ॥
 
हे हतलोभ । हतो निर्मूलीकृतो लोभ आन्तरो महावैरी नतजनस्य येन तत्संबो-
धनम् । सुधाया अपि मधुरेण येन तव वचसा अभयवचनेन जनो देहिजनः शुचं सं-
सारदुःखं त्यजति । हे विभो, प्रकटिता धामधुरा परतेजोधुरा येन तत्तादृशेन तेन व-
चसा नोऽस्मान्भज । अभयवाक्यं नः प्रकटयेत्यर्थः ॥
 
मदयसि येन जनं सकलं मधुरगिरा वदनेन ।
 
मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ २१ ॥
 
अनेकजन्मशतोपार्जितसुकृतपरिपाकदृष्टेन मधुरगिरा येन वदनेन मुखेन सकलं जनं
ब्रह्मादिस्तम्बपर्यन्तं मदयसि प्रमोदयसि । तावत्प्राथम्ये । अनेनैव वदनेन मुखेन परि-
हासेन क्रीडास्मितेन कलं मधुरं वचनं मयि विषये प्रतिदिश देहि ॥
 
Digitized by Google