This page has not been fully proofread.

२४ स्तोत्रम् ]
 
पुनरपि तानुपदिशति-
स्तुतिकुसुमाञ्जलिः ।
 
मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् ।
 
भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ १२ ॥
 
मदनः काम एव महीरुहस्तत्र दवदहनं दावाग्निम् । दाहकमित्यर्थः । तथा शिरसि
मूर्ध्नि धृतोऽमृतभाश्चन्द्रो येन तादृशः । तथा दुरन्तो यो विषादः संसारजं दुःखं तं इ-
न्तीति दुरन्तविषादहनम् । तथा प्रणतेषु भक्तिप्रङ्गेषु सम्यगर्पितो भासो भासनं प्रकाशो
येन तादृशं विभुं शंभुं भजत ॥
 
वितर नदीरमणं शमनं शकलय खण्डय कामम् ।
 
प्रथय धनंजयभयशमनं रचय पुरं हतकामम् ॥ १३ ॥
इति सदयेन यदाचरितं भुवनहिताय हरेण ।
 
भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ १४ ॥ (युगलकम् )
 
इत्यनेन प्रकारेण बालोपमन्युमुनिप्रभृतिषु सदयेन सानुकम्पेन भुवनहिताय त्रिभुवन
शर्मणे हरेण श्रीशिवेन यदाचरितं विहितं तन्महाचरितमपदानकर्म अस्य श्रीशंभोरा-
तिहरेण नुतिवचसा स्तुतिवचनेन भजत । इति किमितीत्याह — वितरेत्यादि । नदीनां
गङ्गादीनां रमणः समुद्रः क्षीरोदधिस्तं वितर व्यतरत् हरो बालायोपमन्यवे मुनये । तथा
शमनं यमं शकलय अशकलयत् श्वेताख्यनृपत्राणाय । तथा कामं खण्डय अखण्डयत्
ददाह । तथा धनंजयस्यार्जुनस्य भयशमनं द्रोणाचार्यकर्णादिसेनापतियुक्तां कौरववा-
हिनीं कथं जेष्यामीति यदर्जुनस्य भयमासीत्तच्छमनं प्रथय अप्रथयत् । तथा हतकामं
हतः कामोऽभिलाषस्त्रैलोक्यविजयरूपो यस्य तत्तादृशं पुरं त्रिपुरं रचय अरचयत् ।
'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इति सूत्रेण लोटो हिस्वावादेशौ
स्तः । तिङामपवादः । अतो वितर व्यतरदित्यादि ज्ञेयम् । युग्मम् ॥
 
गतिरशुभं हर का तरतां भवति विनाशु भवन्तम् ।
 
इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥ १९ ॥
 
हे हर, महासंसारे शिवादिक्षित्यन्तसंहारक, अशुभममङ्गलं पापं अशुभं वर्त्म वा
आशु तरतां तर्तुमिच्छतां इत्यनेन प्रकारेण कातरतां दैन्यं चतुरं शीघ्रमेव हर दूरीकुरु ।
मां च शुभवन्तं सदैव मङ्गलयुक्तं कुरु । भवन्तं दीनदयालुं विना का गतिर्भवति ॥
वरद भवन्तमृते धरते भुवनमिदं सकलं कः ।
 
इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ १६ ॥
 
हे वरद वरप्रद, भवन्तं त्रिजगदधीशं विना सकलमिदं भुवनं त्रिभुवनं को धरते
बिभर्ति । इति हेतोः हे इन्दुकलाधर चन्द्रमौले, सह कलङ्केन कलियुगमहिमोत्थेन व-
र्तते यः स तादृशः कस्तव नतिं न भजते । अपि तु सर्व एव ॥
 
४०
 
Digitized by Google