This page has been fully proofread once and needs a second look.

३१२
 
काव्यमाला
 
जनं भज्जन्ति सेवन्ते । कुत्र सदसि सभायाम् । सोऽपि जनस्ताः प्रमदा रमयति । तासां

संबन्धिनीमात्मनि क्रीडां कारयतीत्यर्थः । कुत्र । रह एकान्ते ॥
 

 
हिमकरकिरणसमूहसितं
 
सुरसरिदम्बुविडम्बि ।
 

वह भगवन्वदने हसितं मा भवतात्र विर्डेम्बि ॥ ७ ॥
 

 
हे भगवन्त्रैनैश्वर्यादिगुणषटृट्कयुत, चन्द्ररश्मिसमूहवत्सितं तथा गङ्गाजलधवलं हसितमीष
-
द्धासं भक्तानुग्रहाय वदने मुखे वह धारय । अत्रास्मिन्हसिते भवता मा विडम्बि डल-

योरैक्याद्विलम्बो न कार्य इत्यर्थः ॥
 

 
उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् ।
 

रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥ ८ ॥
 

 
हे विभो, उपमिता मन्मथस्य कामस्य चापलता धनुर्वल्ली यया सा तादृशीं भ्रुवं स

हेलं हेलयावधूय रविजदृशामन्तकदृष्टीनां घनचापलतां घनचापलम् । अत्र स्वार्थे त

ल्
प्रत्ययः । विघटय दूरीकुरु । अत्र हेतुमाइ —ता नेत्यादि । ता अन्तकदृक्याचापलता
यमद्द

यमदृ
क्याचापलानि अहं न सहे। कथम् । अलमत्यर्थम् ॥
 

 
रविसुतवर्त्म मम स्मरतः श्रुतयमकिंकर वाणि ।
 

दलति विभो हृत्दृदयं दरतः पुरहर किं करवाणि ॥ ९ ॥
 

 
हे विभो पुरहर त्रिपुरदहन, श्रुता यमकिंकराणां यमदूतानां वाण्यो वाचो यस्मि
मिं
स्तद्रविसुतवर्त्म यमपुरमार्गे स्मरतो मम दरतो भयान्मम हृदयं दलति खण्डशो ग-

च्छति । हे विभो, अहं किं करवाणि । अत्र वर्त्मनः स्मृतिमात्रत्वान्न तु तदर्थत्वात्

'स्मरामि वानीरगृहेषु सुप्तम्' इतिवत्षष्ठ्यभावः ॥
 

 
प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण ।
 

शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥ १० ॥
 

 
हे विभो, हन्त हर्षे । यो धन्यो रुचिरेण नुतिवचसा स्तुतिवचनेन तव महमुत्सवं

प्रथयति विस्तारयति शुभशतानां मङ्गलशतानां या सिद्धिस्तां सहते इति शुभशतसिद्धि-

सहस्तादृशं तमचिरेणैव शिरसि वहामि धारयामि ॥
 

 
भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् ।
 

विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥ ११ ॥

 
अतिशुभमार्गदर्शनेन भक्तजनानां भवभयभञ्जनभङ्गिविधौ प्रभवन्तं समर्थम् । तथा

केषांचिद्भक्तानां विधुरे वक्रेऽपि विधौ दैवे विहितं कृतं हितं शुभं येन स तादृशस्तं ज

गत्प्रभवं जगदीशं भजत सेवध्वम् ॥
 

 
[^
]. 'विलम्बि' क.
 
Digitized by Google