This page has been fully proofread once and needs a second look.

३१०
 
काव्यमाला ।
 
तं पुरुषं धन्यं नौमि स्तुवे । त्यद्शब्दः सर्वनामतच्छब्दार्थः । तं पुरुषं कमित्याह - हे विभो,

प्रियासु भक्तजनमनोहरासु तव नुतिषु स्तुतिषु यो नरः कृती कारको भवति ॥ युग्मम् ॥

 
सुकृती सव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् ।

जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥ २५ ॥
 

 
हे भववारणवारणहरिणेन्द्र भवः संसार एव मदाविलत्वाद्वारणो हस्ती तस्य यद्वार
णं
दूरीकरणं तत्र हरिणेन्द्र व्याघ्र । जनतां जनानां समूहो जनता तां सिद्धिभाजनतां सि
द्वि

द्धि
पात्रतां नयत्प्रापयत् । तथा अमलं सितं च वर्णेन तथा लसितमुल्लसितं च तव

वपुः कलेवरमसकृन्मुहुर्मुहुर्नवैः स्तवैरर्चये पूजयामि ॥
 

 
रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् ।
 

वसतां दिवि भवहृदयं हृदयं कुरुते घनोत्कलिकम् ॥ २६ ॥

 
हे अप्रतिघस्मरघस्मर। अप्रतिघो निर्निरोधो जगति यः स्मरस्तस्य घस्मरो भक्षक-

स्तत्संबोधनम् । यो भवतः स्तवः सदैव सतां सत्पुरुषाणां रसकृद्भवति सोऽयं भवतः

स्तवो भयं संसारजं हरतीति भयहृत् दिविवसतां देवानामपि हृदयं मनो घनोत्कलिकं

विपुलोत्कण्ठं करोति ॥
 

 
कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् ।
 

विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥ २७ ॥
 

 
हन्त आश्चर्ये । कलिं तुरीययुगं संसृतिकलहं वा कम्पयतीति तादृशम् । तथा अघं

त्रिविधं वाङ्मनःकायोपार्जितं शृणाति हिनस्तीत्यघशरणम् । 'गृ शृ हिंसायाम्' धातुः ।

तथा अविकलं सर्वेश्वर्येण पूर्णम् । तथा द्विरदराजवदुत्कृष्टकरीन्द्रवद्गतिर्गमनं यस्य ता.
-
दृक् च तव चरणद्वयं पादाम्बुजयुगलमहं भजे सेवे। किंभूतोऽहम् । विकलङ्का मतिर्यस्य

स तादृक् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरक-

महाकविश्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जली
लौ
शृङ्खलाबन्धस्तोत्रं त्रयोविंशम् ॥
 

 
चतुर्विंशं स्तोत्रम् ।
 

 
अथातो द्विपदयमकाख्येन चित्रकाव्यभेदेन चतुर्विंशं स्तोत्रमारभमाण आह
-
 
वचसि सरस्वति मे विभवं प्रकटय जातरसारम् ।

नुतिभिरुपस्तुहि देवि भवं सकलसुरान्तरसारम् ॥ १॥
 

 
हे सरस्वति वाग्देवि, अरमत्यर्थेथं जातो रसः श्रीशिवभक्तिरसो यस्याः सा जातरसा

त्वं मे मम वचसि । जातावेकवचनम् । वचनेषु विभवमत्युल्लासं प्रकटय । अत्र हेतु-
Digitized by Google