This page has not been fully proofread.

२३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
भूषितमुकुटैः सुरैर्नतेश न कैः ।
नाशय विपदं पदं नय मा ॥ २० ॥
 
कलयेन्दोरभिभूषित
 
शनकैरघशमनाशय
 
हे इन्दोः कलयाभिभूषित तथा भुवि भूमावुषितानि प्रणामावसरे मुकुटानि येषां
तादृशैः कैः सुरैर्ब्रह्मविष्ण्विन्द्रादिभिर्न नत, (अपि तु सर्वनत) हे ईश जगदीश, तथा
अघं संसाररूपं रोगं देहिनां शमयतीत्यघशमनस्तादृश आशयो यस्य तस्यामन्त्रणं हे
अघशमनाशय, शनकै विपदं नाशय । तथा मा मां पदं स्वं धाम नय प्रापय ॥
 
>
 
न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते ।
 
क्षमते मुनिभिरूपासित पासितरां चेन्न मामदयम् ॥ २१ ॥
 
प्रसादे दक्षा मतिर्यस्य स तत्संबोधनं हे प्रसाददक्षमते, तथा मुनिभिः कपिलादिभि-
रुपासित सेवित विभो, त्वमदयमविद्यमाना दया यत्र तत् । अदयो भूत्वा चेन मां पा
सितरामतिशयेन पासि तदा यमेनान्तकेनाहितं वितीर्ण यद्भयं तस्य शमनेऽनेकविधं ना-
नाविधमपि शं मङ्गलं मङ्गलवस्तु च न क्षमते । अन्तकभयं दूरीकर्तु न समर्थ भवती-
त्यर्थः । एतद्द्वृत्ताशयानुसारेण च मदीयं वृत्तमेकम् – 'स्मृतिर्यत्र क्वापि स्वपरविषयेनै-
व हि भवेन्निरायासा जाताः सततमिह धन्वन्तरिमुखाः । विनैकस्माच्छंभोः सदयनयनो-
द्वीक्षणलवाद्भवापस्मारोऽयं विषमविषमः शाम्यति कथम् ॥'
 
मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् ।
 
बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥ २२ ॥
 
हे विभो, वसुधाधिपो राजा तव प्रसादमितः प्राप्तः । बलेन यन्त्रिता रिपवो येन स
तादृशः । जिता विप्रकृतिर्विकारो याभिस्ता जितविप्रकृतीः प्रकृतीः सप्त मदयभानन्द-
यन्, अविद्यमाना क्षतिर्बाधो यस्य तत्तादृशं महीवलयं भूमण्डलं रक्षति ॥
दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा ।
तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥ २३ ॥
त्यमलंकृतभूभवनं भव नन्दितलोकमीश भावपुषा ।
 
वपुषा नौम्यभवस्तव यस्तव नुतिषु प्रियासु कृती ॥ २४ ॥ (युग्मम् )
 
हि निश्चये । तेन धन्येन शमनोऽन्तको दमितो निर्दर्पः कृतः । तथा तेन धन्येन जात-
मुदा संजातहर्षेण शं कल्याणं कैवल्यरूपमापि प्राप्तम् । किंभूतेन । अनस्तरुचा न अस्ता गता
रुक् शोभा यस्य तादृशेन । तथा उदाराहितचरितमुदारं महदाहितं धृतं चरितं येन स
तादृशम् । तथा शुभवर्त्मना कल्याणमार्गेण चरितं संचरन्तम् । तथामलं निष्कलङ्कम् ।
तं पुरुषं जनाः स्तुवन्ति । तथा हे विभो भव शंभो ईश जगदीश, हे अभयस्तव अभया
अव्युच्छिन्नाः स्तवा यस्य स तस्य संबोधनम् । भावं श्रीशिवचरणाम्बुजभावनां पुष्णा-
तीति तादृशेन भावपुषा वपुषा देहेनालंकृतं भूषितं भूभवनं भूगृहं येन स तादृशम् । त्यं
 
Digitized by Google