This page has not been fully proofread.

३०८
 
काव्यमाला ।
 
यन्ति । अस्य च कृतिनो न यातं वयस्तारुण्यं यस्य तत्तादृशं वपुर्विलासमये विलासप्र-
चुरे समये विपदं विनाशं न याति । हे देव, अहं तं भवत्स्तुतिपरं अनाहतभाग्यमेव नमे
नमामि ॥ युग्मम् ॥
 
वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव ।
 
यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥ १६ ॥
 
मधु मधुनामानं दानवं नाशयतीति मधुनाशी विष्णुस्तेन नुतः स्तुतः । तत्संबोधनं
हे मधुनाशिनुत, हृदये चित्ते यतवति । 'यती प्रयत्ने' धातुः । भवद्भक्त्युद्रेकाय सयत्ने
सति शकलितं कलौ तुरीययुगे तमोऽज्ञानमेव तमोऽन्धकारं येन स तादृशस्य मे न-
मेरुचितं प्रायशः प्रालेयाद्रिवनमेवाधुना तव विभोः प्रसादनाय प्रसन्नीकरणाय शरणं
भवति ॥
 
रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् ।
 
नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥ १७ ॥
 
हे शंभो, सती वर्तमाना अनन्ता महर्द्धिर्यस्मिंस्तत् । सती अनन्तस्य नागराजस्य
शेषस्य वा महर्द्धिर्यस्मिंस्तादृशमुरगसदनं पातालं मे न रुचितं नाभिप्रेतम् । तथा
सदनन्तमहद्धिं महाविभूतिकं नन्दनं स्वर्गोद्यानमपि न मे रुचितमभिप्रेतम् । प्रकृष्टाः
पातकनिर्मोचनत्वादयो गुणा यस्मिंस्तत्प्रगुणम् । तथा धृता दीप्रा गुणा माधुर्यौजःप्रसा-
दाख्याः शब्दगुणा अर्थगुणाश्च यत्र तद्धृतदीप्रगुणं नवनम् । 'णु स्तुती' धातुः । स्तु-
तिमेव तव कर्ते रम हृष्यामि । 'रमु क्रीडायाम्' ॥
 
वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् ।
 
महितं पदमपि मा नय मानय विधुरं दृशामलया ॥ १८ ॥
लहिता निरस्ता विघ्ना येन स तस्य संबोधनं हे लतिविघ्न । नाम संभावनायाम् ।
अमलं निर्मलम् । हितं शुभम् । एनांसि पातकानि हरति एनोहरस्तं वरमभिलषितं मम
देहि वितर । हे विभो, त्वं मा मां कर्मभूतं महितं पूजितं पदमपि नय प्रापय । तथा अ
मलयातिप्रसन्नया दृशा मां विधुरं दीनं मानय संमानय ॥
 
मलयानिलमिव सुरभि सुरभि कुसुमैरिवावदातवनम् ।
 
तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥ १९ ॥
 
अविद्यमाना आमयाः षट् शीताया मायावरणरूपो वा आमयो यस्य स तत्संबोधनं
हे अनामय, सुरभि सौगन्ध्ययुक्तं मलयानिलं नन्दित हृदयं यथा कश्चिज्जानाति । तथा
............यमत्रासहृत् नन्दितं प्रमोदितं हृत् हृदयं येन तत्तादृशं कलये जाने ॥
 
१. नमेरुरृक्षविशेषः.
 
Digitized by Google