This page has been fully proofread once and needs a second look.

२३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
तिशयेन उदितरसा उत्पन्नसामरस्या असौ मम गीर्विभुं श्रीशिवं श्रयतां भजतु ।
का-
दम्बे कलहंसः स्याद्राजहंसे च कोकिले' इति मेदिनी ॥
 

 
सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः ।
 

वज नः करुणापरतां परतां मा गा नमो भवते ॥ ११ ॥

 
उदारा विश्वोत्तीर्णा मतिर्यस्य स तस्य संबोधनं हे उदारमते देव शंभो, यत्सत्तथ्यं त

त्त्ववस्तु तदेव कुर्वत्रन्नयं जनो रमते प्रहृष्यति । हे विभो, त्वं नोऽस्माकं करुणापरतां द-

यापरत्वं वज व्रज । 'वज व्रज गतौ' धातुः । परतामन्यत्वं दीनदयालुर्भवान्मा गाः ।

भवते जगदीशाय नमोऽस्तु ॥
 

 
भव तेजःप्रसरसितं रसितं श्रुत्वामृतोपमं भवतः ।
 

भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥ १२ ॥
 

 
हे भव शंभो, सह कलङ्केन तुरीययुगजन्मोत्थेन वर्तते या सा तादृशी मतिर्यस्य स

तादृगहं भवतस्तव स्वामिनस्तेजःप्रसरेण सितं धवलं सुधातुल्यं तव रसितं प्रसादवचनं

श्रुत्वा सकलं सर्वे भवतः संसारात्रासं जन्मजरामरणोत्थं कदा विमुश्याञ्चामि जातु

विमुश्वाञ्चामि ॥
 

 
मुश्वाञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य मे वदनम् ।
 

वद नन्दयितुं जगतीं जगतीशः कोऽस्तु नामान्यः ॥ १३ ॥

 
भासनं भासः । अमितोऽव्यवच्छिन्नो भासः प्रकाशो यस्य तस्य संबोधनं हे अमि-

तभास, त्वं शशिनश्चन्द्रमसः सदृशं वदनं प्रदर्श्य मे मम दृशं प्रसाददृष्टिं मुञ्च क्षिप । हे

विभो, त्वं वद जगतीं भूमिं नन्दयितुमुद्धर्तुमिह जगति को नामान्य इशः शक्तोऽस्तु ।

न कोऽपीत्यर्थः ॥
 

 
नामान्यः सुमतिरयं तिरयन्ति यशांसि तै[^१]तस्य वा विपदम् ।

विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥ १४ ॥

 
तवं यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् ।

शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥ १९ ॥ (युग्मम्)
 

 
हे हर शंभो, क्लेशा अविद्यादयः पञ्च । पाशा आणवमायीयकार्मास्त्रयः । तन्मयं

दाहरजो दाहरूपं रजः शमयन्तीषु तव स्तुतिषु सदा नित्यमेवास्तमनाः अस्तं क्षिप्तं मनो

येन स तादृशो यो भवति अयं सुमतिर्विमलधिषणोऽमान्यो न भवति । द्वौ नत्रीञौ प्र

कृतमेवार्थमाहतुः । मान्यः पूज्यो भवतीत्यर्थः । वा समुच्चये । तस्य च धन्यस्य यशांसि

विपदं तिरयन्ति नाशयन्ति । वीनां पक्षिणां वा पदं स्थानं गगनं तिरयन्त्याच्छाद-

 
[^
]. 'यस्य' क-ख.
 
Digitized by Google