This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
वाण्यां चतुरन्तमह्या श्चतुरन्तभूमेः पत्युर्भावश्चतुरन्तमहीपालतापि सतां सज्जनानां यत्व
हेयत्व
एव त्याज्यत्व एव पतिता । तृणतुल्येत्यर्थः ॥
 

 
असतां न कदा भवता भवतापहृता विभो शुभाकृतिना ।

कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥ ६ ॥
 

 
हे विभो परमेश, त्रसतां भीतानां जन्मजरामरणत्रासेन भवतापहृता भवेन संसारेण

यस्तापस्तं हरतीति तादृशेन तथा शुभा मङ्गलदायिनी आकृतिर्यस्य स तादृशेन च भ

वता स्वामिना उपकारैः पातकनिर्मोचनादिरूपैश्चितं पूरितं तथा भावि भविष्यद्धितं य-
स्मि

स्मिं
स्तत् शुभमेव कैवल्यप्रदानरूपं कृतिनां पुण्यवतां कदा न रचितम् ॥
 

 
विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् ।
 

कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ ७ ॥
 

 
हे अमलविभासितभासित, अमला धवला या विभा कान्तिस्तया सितश्चन्द्रस्तेन

भासित शोभित न्द्रशिखामणे, विवेकस्य कार्याकार्यरूपस्य लयो नाशस्तं गते मयि

भवता चिरं चिरकालं प्रियं कथं न विहितम् । हे विभो, मे अलमत्यर्थे विपाकं परि-
गति

णतिं
कलयन्मे रुचिमेहि । यथा मम रुचिर्भावना त्वयि स्वामिनि स्यात्तथा कृपां

कुर्वित्यर्थः ॥
 

 
कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते ।
 

कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥ ८ ॥

 
हे अपराजित शंभो, राजितं शोभितं विकसद्विकासयुक्तं वपुर्यस्य तत्तादृशं कमलं

पद्मं रविः सूर्यो यथा कुरुते हे भव, तेनैव पथा मार्गेण तद्वन्मा मां कुरु । परमानन्दवि
-
कासितं कुर्वित्यर्थः । विमुखः पराच्युङ्मुखो मा भव । मे मह्यं दृशमनुग्रहदृष्टिं दिश देहि ॥

 
दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे ।
 

नलभेकवदतिविलपन्बिलपन्नगवद्वृतः सदा तमसा ॥ ९ ॥
 

 
हे विभो, विषयाः शब्दादय एवोरगाः सर्पा दंशोद्युक्तास्तै रहितां विचारेण विवेकेन

हितां शुभां च तत्सदृशीं दिशं मार्गमेषोऽहं न लभे न प्राप्नोमि । अहं किं कुर्वन् । नले

डलयोरैक्यान्नडे तृणविशेषे भेकवन्मण्डूकवदतिविलपन्नतिशयेन विलापं कुर्वन् तथा बिले

पन्नगवत्सर्पवत्तमसा तमोगुणहेतुना अज्ञानेनान्धकारेण च सदा वृत आच्छादितः ॥
 

 
तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् ।
 

सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥ १० ॥

 
उज्झितस्त्यक्तः कलहो मायावरणार्थो येन स तादृशम् । तथा कलहंसगिरा कलंहं-

सवस्कोकिलवन्मधुरा गीर्यस्याः सा तादृश्या उमया पार्वत्या सदा सहितम् । तथा स

दयं सकरुणम् । तथा सहितं सह हितेन शुभकर्मणा वर्तते यः स तादृशं च तरसा अ
 
Digitized by Google
 
-