2023-02-23 21:27:50 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
वाण्यां चतुरन्तमया चतुरन्तभूमेः पत्युर्भावश्चतुरन्तमहीपालतापि सतां सज्जनानां यत्व
एव त्याज्यत्व एव पतिता । तृणतुल्येत्यर्थः ॥
असतां न कदा भवता भवतापहृता विभो शुभाकृतिना ।
कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥ ६ ॥
हे विभो परमेश, त्रसतां भीतानां जन्मजरामरणत्रासेन भवतापहृता भवेन संसारेण
यस्तापस्तं हरतीति तादृशेन तथा शुभा मङ्गलदायिनी आकृतिर्यस्य स तादृशेन च भ
वता स्वामिना उपकारैः पातकनिर्मोचनादिरूपैश्चितं पूरितं तथा भावि भविष्यद्धितं य-
स्मिस्तत् शुभमेव कैवल्यप्रदानरूपं कृतिनां पुण्यवतां कदा न रचितम् ॥
विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् ।
कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ ७ ॥
हे अमलविभासितभासित, अमला धवला या विभा कान्तिस्तया सितश्चन्द्रस्तेन
भासित शोभित न्द्रशिखामणे, विवेकस्य कार्याकार्यरूपस्य लयो नाशस्तं गते मयि
भवता चिरं चिरकालं प्रियं कथं न विहितम् । हे विभो, मे अलमत्यर्थे विपाकं परि-
गति कलयन्मे रुचिमेहि । यथा मम रुचिर्भावना त्वयि स्वामिनि स्यात्तथा कृपां
कुर्वित्यर्थः ॥
कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते ।
कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥ ८ ॥
हे अपराजित शंभो, राजितं शोभितं विकसद्विकासयुक्तं वपुर्यस्य तत्तादृशं कमलं
पद्मं रविः सूर्यो यथा कुरुते हे भव, तेनैव पथा मार्गेण तद्वन्मा मां कुरु । परमानन्दवि
कासितं कुर्वित्यर्थः । विमुखः पराच्युखो मा भव । मे मह्यं दृशमनुग्रहदृष्टिं दिश देहि ॥
दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे ।
नलभेकवदतिविलपन्बिलपन्नगवद्वृतः सदा तमसा ॥ ९ ॥
हे विभो, विषयाः शब्दादय एवोरगाः सर्पा दंशोयुक्तास्तै रहितां विचारेण विवेकेन
हितां शुभां च तत्सदृशीं दिशं मार्गमेषोऽहं न लभे न प्राप्नोमि । अहं किं कुर्वन् । नले
डलयोरैक्यानडे तृणविशेषे भेकवन्मण्डूकवदतिविलपन्नतिशयेन विलापं कुर्वन् तथा बिले
पन्नगवत्सर्पवत्तमसा तमोगुणहेतुना अज्ञानेनान्धकारेण च सदा वृत आच्छादितः ॥
तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् ।
सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥ १० ॥
उज्झितस्त्यक्तः कलहो मायावरणार्थो येन स तादृशम् । तथा कलहंसगिरा कलंहं-
सवस्कोकिलवन्मधुरा गीर्यस्याः सा तादृश्या उमया पार्वत्या सदा सहितम् । तथा स
दयं सकरुणम् । तथा सहितं सह हितेन शुभकर्मणा वर्तते यः स तादृशं च तरसा अ
Digitized by Google