2023-02-23 21:27:49 by ambuda-bot
This page has not been fully proofread.
२३ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
त्रयोविंशं स्तोत्रम् ।
अथातः शृङ्खलाबन्धाख्येन चित्रकाव्यभेदेन त्रयोविंशं स्तोत्रमारभमाणः कविराह-
जगति विबोधितविधुरं विधुरजितचारुशेखरं गिरिशम् ।
गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥ १ ॥
३०१
जगति भूमण्डले विबोधिता विशेषेण परमानन्ददायित्वाद्विकासिता विधुरा भीता
येन स तादृशम् । तथा विधुना चन्द्रमसा रञ्जितश्चारुः शेखरो मौलिर्यस्य स तादृशम् ।
ससाध्वसा जन्मजरामरणत्रासभीता ये साधवः सजनास्तेभ्योऽसमानन्दस्यानन्यसदृशा-
नन्दस्य दाने परं लीनम् । गिरि वाचि शंसामि स्तौमि ॥
न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् ।
। हि
महतां भजति हि सहसा सहसा तव भारती मधुरा ॥ २ ॥
कृतावशावहेला येन तत्तादृशं मानसं चित्तं यस्य स तादृशे भवति"
यस्मात्कारणात्सहसा त्वरितमेव सहसा बलेन मधुरा परमामृतमयी तव भारती वाणी
महतां महस्योत्सवस्य भावो महता तां भजति । तवैवाभयवाणी यतो महोत्सव इत्यर्थः ॥
.........
मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा ।
प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥ ३ ॥
प्रमदस्य कैवल्यपरमानन्दस्यार्पणार्थ दानार्थमुदिते उद्युक्ते मुदिते संतुष्टे त्वयि विभौ
सति मधुरागारुणनयनापि तथा नयस्य नीतिशास्त्रस्य यो नाशस्तस्य विधौ प्रगल्भापि
. प्रमदा वरस्त्री अपि सा भजतां त्वद्भक्तियुक्तानां जनानां तृणं भवतीत्यर्थः ॥
भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् ।
करुणां गिरं नवतया बत यार्पयते तव श्रयताम् ॥ ४ ॥
हे इन्दुना चन्द्रेण लाञ्छितं शोभितं शेखरं मौलिर्यस्य स तस्य संबोधनम् । त्वं स
रसां सह सामरस्या तां करुणां कृपां भज आश्रय । कस्य हेतोः । मम । तां कामि-
त्याह - या तव करुणा बतानन्दे श्रयतां भजतां सेवकानां करुणां दीनामपि गिरं नव-
तया नूतनत्वेनार्पयते ददाति । अतिकरुणातिदीना कृशापि भवत्सेवकानां वाणी यया
भवत्कृपया नवेव संपद्यत इत्यर्थः ॥
श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् ।
चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥ ५॥
है विभो, अघं पापं धौतवती प्रक्षालयित्री सा मम गीर्वाणी चतुरं शीघ्रमेव तव न
वनविधौ स्तुतिकर्मणि रतिं सक्ति भजतां प्राप्नोतु । सा गीः का इत्याह – यत्र गिरि
Digitized by Google