This page has been fully proofread once and needs a second look.

२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१७
 
छिनत्तीति । अथ महाकालः प्रावृदसमयः सोऽपि घनानां मेघानां ध्वनितशोभी

बहलजलस्राविमेघशब्दशोभी ॥
 

 
नमो वाष्पनसातीतमहिम्ने परमेष्ठिने ।

त्रिगुणाष्टणागुणानन्तगुणनिर्गुणमूर्तये ॥ १२ ॥
 
यस्याः,
 
गुणा
 

 
नमो वाङ्मनसेति । वाक्च मनश्च वाङ्मनसम् । ततः अतीतो महिमा यस्य तस्मै ।

वाङ्मनसपदं 'अचतुरविचतुर-' इति सूत्रेण निपातितम् । त्रयो गुणाः सत्त्वरजस्तमांसि

यस्याः ,
अष्टौ बुद्ध्यादयो विशेषगुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्माः । यद्वाष्टौ

गुणा
दयाक्ष्यान्त्यनसूयाशौचानायासमङ्गलाचाराकार्पण्यास्पृहाख्या अष्टावात्मगुणाः ।

तथा अनन्ता गुणा यस्याः सा गुणेभ्यो निष्क्रान्ता निर्गुणा मूर्तिर्यस्य सः । तथा च

'वेदोऽखिलो धर्ममूल आचारश्चैव तद्विदाम् । अष्टावात्मगुणास्तस्मिन्प्रधानत्वेन संस्थि-

ताः ॥ दया सर्वेषु भूतेषु क्षान्ती रक्षेतरस्य च । अनसूया तथा लोके शौचमन्तर्बहिस्त-

था ॥ अस्पृहा च परस्नोत्रीषु परस्त्रेवेषु च सर्वदा । अष्टावात्मगुणाः प्रोक्ताः पुराणेषु तु

कोविदैः ॥' एवंभूताय परमेष्ठिने । परमे पदे तिष्ठतीति परमेष्ठी तस्मै । कार्यार्थं ब्रह्मरू-

पाय नमोऽस्तु ॥
 

 
हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे ।
 

स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥ १३ ॥
 

 
हंसायेति । हंसाय परमात्मने परमशिवाय नमोऽस्तु । 'हंसो विहंगभेदे स्यादर्के

विष्णौ हयान्तरे । योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥" इति विश्वः । हंस इति

परमात्मैव, हंसः सूर्यस्तस्मै च । द्वावपि विशिनष्टि – परमेश्वरपक्षे दीर्घा ये दोषाः शि-

वाभेदप्रथाया अपरिज्ञानादिरूपास्तेषामन्तं करोतीति तस्मै । सूर्योऽपि दोषाया रात्रे-

रन्तं करोति । तथा परमेश्वरपक्षे अम्बरचारिणे हृदयाकाशे परमज्योतीरूपाय । तथा

स्वेन महोमहिम्ना ध्वस्तं नाशितं समस्तं तमोऽज्ञानमविद्यापर्यायं तेन । सूर्योऽपि गग-

नचारी ध्वस्तध्वान्तश्च ॥
 

 
यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना ।
 

कांचनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥ १४ ॥
 

 
य इति । तस्मै स्मरजिते श्रीशिवाय नमोऽस्तु । तस्मै कस्मै इत्याह – यः परमेशः

कांचन अनिर्वाच्यामिनश्रियं प्रभुशोभां धत्ते । 'इनः सूर्ये प्रभौ' इत्यमरः । केन । चन्द्रे-

ण । किंभूतेन । सुवर्णेन शोभनो वर्णो यस्य तेन । तथा गाङ्गेयेन गणपतिना । 'गाङ्गे-

याखुरथौ' इति मङ्गःखः । अथाग्निजन्मना कुमारेण सुतेन । असमस्तपदपुनरुक्तवदाभासः ।

शोभनो वर्णो यस्य तत्सुवर्णम् । चन्दत्याह्लादयति चन्द्रः । 'चन्द्रं क्लीबे सुवर्णे च स्वर्णे
णं
कम्पिल्लके तु ना' इति मङ्गःखः । गाङ्गेयमग्निजन्म । यथा – 'यं गर्भं सुषुवे गङ्गा पावकाद्दी-

प्
ततेजसम् । तदुल्वं पर्वते न्यस्तं हिरण्यं समपद्यत ॥" इति वायुपुराणे । इत्यतो गाङ्गेयम-

 
Digitized by Google