2023-02-23 21:27:49 by ambuda-bot
This page has not been fully proofread.
२२ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
३०३
कन्दो मूलं तस्य कर्तनार्थे छेदनार्थ यत्कुठारकर्म तस्मै कलिकलङ्कच्छेदाय कल्पतां
प्रभवतु । किंभूत इत्याह – काव्येत्यादि । कवित्वबीजरूपप्रतिभाविशेषलोकवृत्तशास्त्रका-
व्याद्यवगाहनोद्धूतनिपुणताकाव्यकर्तृविचारयितृशिक्षाभ्यासरूपैकहेतुनिपुणकविकर्म का
व्यम् । तत्र यत्कौशलं तथा कलाश्चतुःषष्टिश्च मनोज्ञव्यवहाररूपास्तासु कोविदैनिंपुगैः
कविकुलैः कविसमूहै: कुतू इलात्कौतुकात्कीर्तितः स्तुतः । पुनः किंभूतः । कौमुदी
ज्योत्स्ना । कुमुदं सिताम्भोजम् । तद्वत्कान्ता रुचिरा कीर्तिर्येषां ते तादृशैः । यद्वा
कुमुदकान्तश्चन्द्रस्तदुपमकीर्तिभिः । कुशलकार्यकारिभिर्मङ्गलकर्मविधायिभिः कामितो-
ऽभिलषितः ॥ पुनः किंभूतः । केरलो देशविशेषस्तत्र स्त्रीणां प्रायशः केशाः पिङ्गला इति
प्रसिद्धिः । केरलीनां केरलदेशीयस्त्रीणां कचाः केशाः तथा कलिन्दकन्यकाया यमुनाया
यत्कूलं तत्र यः कालियो नागभेदस्तद्वत्कडारा पिङ्गला कंधरा यस्य तादृक् । पुनः किं
भूतः । किल्बिषस्य पातकोपपातकमहापातकरूपस्य त्रिविधस्य क्षपणे कारणभूतो यः
ऋतुस्तस्य भयेन पलायमानस्य मृगरूपस्य क्लान्तिः शिरश्छेदनरूपा तां करोतीति
तादृक् । पुनः किंभूतः । करटिकृत्तिकर्पट करटी हस्ती तस्य कृत्तिश्चर्म तदेव कर्पट-
मुत्तरीयं यस्य सः । 'व्याघ्रचर्मपरीधानं गजचर्मोत्तरीयकम्' इत्यागमः ॥ पुनः किं
भूतः । केकी मयूरः स एव केतनं निवासो वाहरूपो यस्य स केकिकेतनः कुमारः ।
कृशानुरग्निः । कौशिक इन्द्रः । 'मुनीन्द्रगुग्गुलूलूकव्यालप्राहिषुः कौशिकः' इत्यमरः ।
तैः । तथा किनरैर्देवयोनिभेदैः । " किंचिन्नरोऽश्वादिमुखत्वात्किनरः । कुत्सितो नरो
वा । 'किं क्षेपे' इति समासः" इति स्वामी । तथा कविः शुक्रः कुबेरो धनदः केशवो
विष्णुस्तैरेतैर्देवविशेषैः कालकूटस्य विषभेदस्य कवलक्रिया निगलनकर्म तत्क्रमे तत्प्रा-
रम्भे क्रन्दितः कृताह्वानः । पुनः किंभूतः । कलुषस्य त्रिविधस्य पातकस्य कर्षणं दूरीक-
रणं तत्र क्षमः ॥ पुनः किंभूतः । कर्णयोः कीलिते आरोपिते महाप्रलये कालाभिरुद्ररू-
पेण संहारितानां ब्रह्मादीनां कपाले एव कुण्डले येन सः । पुनः किंभूतः । कुण्ठितं कु
ण्ठीकृतं ऋकचकल्पं कल्मषं पापं येन सः । तथा कालो यमः कामो मदनस्तयोः
कदनो दाहकः । तथा कुमुद्वतीकान्तेत चन्द्रमसा कर्बुरं व्याप्तं कर्बुरवर्ण वा कपर्दस्य
जटाजूटविशेषस्य कंदरं गह्वरान्तरालं यस्य सः ॥ पुनः किंभूतः । क्रीडितः प्रमुदितः ।
कुत्रः । कानने वने । केन । कापिशायनेनासवविशेषेण कषाया सुरभिर्भाविता वा का-
मिनी । 'कषायः सुरभौ स्निग्धे भाविते त्रिषु ना रसे' इति मङ्गः । तस्याः केलिकूजित-
कलेन क्रीडागभीरस्वनेन । कस्मात् । कौतुकात् । पुनः केन । क्वणिताः शब्दायमाना ये
कीचका वेणुविशेषास्तेषु क्वणन्त्यो याः कोकिलाः पिक्यस्तत्कलकलेन ॥ पुनः किंभूतः ।
कुन्दं माघ्यं पुष्पविशेषस्तेषां कुङ्क्षलानि कदम्बानि च केतक्यश्च काञ्चनार कलिकाश्च पुष्प-
विशेषास्तेषां कदम्बकैः समूहैः । तथा कर्णिकाराणि करवीराणि च तेषां कोरकास्तैः तथा
कैरवैः श्वेतजलजैः कुवलयैर्नीलोत्पलैः कुशेशयैः पद्यैः कचिता भूषिताः कीर्णाः प्रकीर्णाः
कुन्तला: केशा यस्य स इत्यप्रिमवृत्तस्थेनान्वयः । अत्र च 'तवैश्वर्ये यत्नाद्यदुपरि
विरिश्चो हरिरघः परिच्छेतुं यातावनलं' इत्याख्याने श्रीशंभुना केतकी मिथ्यावादेन शप्ता
Digitized by Google