2023-10-20 08:38:00 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
३०१
रुत्तरमुत्तरान्निष्क्रान्तं तादृशं यत्परस्परसामरस्यं तस्य संभावनं निश्चयस्तत्र व्यसनिनोर -
त्यन्तहेवाकिनोः शिवयोः पार्वतीपरमेश्वरयोरुत्तमचमत्कारकरमद्वैत मर्धनारीश्वरत्वमस्माकं
शिवयोजनाय कैवल्यप्रतिपादनायास्तु । किंभूतम् । अनवद्यं निर्दोषं हृद्यं मनोहारि च ॥
तिलकम् ॥
लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि ।
साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥ २३ ॥
ईशयोः पार्वतीपरमेश्वरयोस्तदत्यद्भुतमतिचमत्कारकारि साहित्यमद्वैतं कस्य सचेत
नस्य रोमाञ्चं पुलकं नोद
श्वररूपेऽपरत्र भगवत्पार्श्वेऽलक्ष्याण्यदृश्यानि लक्षणानि स्तन हेमावदातगलत्वस्निग्धचिकु
रकलापत्वादीनि विलक्षणान्येव दृश्यानि । भगवतीपार्श्व इत्यर्थः । अथ च साहित्यं प्र
न्धः लक्ष्यापरपर्यायः । तस्याद्भुतत्वम् । तच्च किम् । लक्ष्याणि पदानि लक्षणानि च
अलक्ष्याणि लक्षणानि चालक्षणानि ॥
जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं
भागं वह्निशिखापिशङ्ग
धत्ते शक्रधनुःश्रियं [^२]प्
र्युष्माकं स पयोधरो भगवतो हर्षामृतं वर्षतु ॥ २४ ॥
जूटस्य भगवत्कपर्दस्याहेर्वासुकेर्यन्मुकुटं तत्र यानीन्द्रनीलानि मणिविशेषास्तदीय-
कान्तिभिरूर्ध्वगं भागं श्यामं दधती । तथा व
लाभिः पिशङ्गमघरं भागमधोभागमग्निज्वालाकपिलं दधती । तथा मध्ये मध्यभागे सु-
धाच्छच्छविः स्वयं सुधावदच्छच्छविर्वा । न ऋजुरनृजुः कुटिला इन्दुलेखा चन्द्रकला
पूर्वोक्तप्रकारेणोर्ध्वमध्याधोभागेषु श्यामधवलपिशङ्गवर्णा यत्र भगवतोरद्वैतभाजोः स्तन-
प्रतिमिता प्रतिबिम्बिता शक्रधनुः
श्वरयोरद्वैतभाजोः पयोधरः स्तन एव पयोधरो मेघो हर्षामृतं परमानन्दामृतं युष्माकं
वर्षस्विति शिवम् ॥
इति श्रीराजानकशंकरकण्ठात्मजराजानकश्रीरत्नकण्ठविरचितया लघुप
समेतं काश्मीरकमहाकविश्रीजगद्धरभट्टकृते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलावर्धनारीश्वरस्तोत्रमेकविंशम् ।
[^१]. 'अपरं' ख.
[^२]. 'प्रतिमितो यत्रेन्दुलेखाङ्कुरः' ख.
Digitized by Google