2023-10-20 08:30:32 by jayusudindra
This page has been fully proofread once and needs a second look.
काव्यमाला ।
न व्येति स्वरू
पात्प्रचलतीत्यव्ययं तद्भावोऽव्ययत्वं महाप्रलयेष्वनश्वरत्वमथ चाव्ययत्वं च वा ह इत्या-
द्यव्ययीभावोऽप्यखण्डितमेवाद्भुतं भाति । अथ च यदपि पदं त्रि
र्व्यवसितं ज्ञातं विभक्तिभिश्च सहितं तत्राव्ययत्वमविखण्डितं कथं स्यादिति विरोधः ।
अत एवाद्भुतत्वम् । तथा चोक्तम् – 'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु
च सर्वेषु यन्न व्येति तदव्ययम् ॥' इति । यस्य पदस्य लिङ्गसंख्याकारककृतो विभागो
नास्ति तदव्ययमुच्यत इति । त्रिभिर्लिङ्गैः किमित्याह – एकः स्तनो वामार्धे देवीसक्ते
समुचितोन्नतिः समुचिता उन्नतिर्यस्य स भवति । तथा एकमक्षि तत्रैव लक्ष्या
क्ष्यम
क्ष्यमञ्जनं यत्र तद्भवति । तथा तनुरपि मूर्तिरपि
यत्र ध्रुवं हृदय एव यदैक्यमासी-
द्वाक्काययोरपि पुनः पतितं तदेव ।
यस्मात्सतां हृदि यदेव तदेव वाचि
यच्चैव वाचि करणेऽप्युचितं तदेव ॥ २० ॥
कान्ते शिवे त्वयि विरूढमिदं मनश्च
मूर्तिश्च मे हृदयसंमददायिनीति ।
अन्योन्यमभ्यभिहितं वितनोति यत्र
साधारणस्मितमनोरमतां मुखस्य ॥ २१ ॥
उद्यन्निरुत्तरपरस्परसामरस्य-
संभावनव्यसनिनोरनवद्यहृद्यम् ।
अद्वैतमुत्तमचमत्कृतिसाधनं त
द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥२२॥ (तिलकम्)
ध्रुवं निश्चये । यस्मिन्नर्धनारीश्वररूपे हृदय एव यदैक्यं द्वयोः शिवयोरासीत्तदेवैक्यं
तत्सक्तयोर्वाक्काययोरपि पुनः पतितम् । तदेव दृष्टान्तेन संभावयति – यस्माद्धेतोः स-
तामुत्तमानां सहृदयानां हृदि मनसि यद्भवति तदेव तेषां वाचि यच्चैव वाचि भवति
तदेव करणे देहे कर्मणि चोचितम् । यत्रार्धनारीश्वररूपेऽन्योन्यं परस्परमभि । अन्यो-
न्यमुद्दिश्येत्यर्थः । इत्यभिहितं कथनम् । भावे क्तः । मुखस्य वक्त्रस्य साधारणस्मितेन
मनोरमतां वितनोति विस्तारयति । इति किमित्याह – हे कान्ते दयिते शिवे गौरि,
त्वयि विषये विरूढं निलीनं मम मनश्च । मूर्तिश्चेत्थं त्वयि विरूढा । उभे इत्यर्थात् । एवं-
विधे मनश्च मूर्तिश्चेत्युभे मम हृदयसंमददायिनी । चेतश्चमत्कारकारिणी इत्यर्थः । दा
यिनी इति द्विवचनम् । इति पार्वतीं प्रति भगवदुक्तिः । भगवत्या उक्तिर्यथा त्वयि शिवे
Digitized by Google