This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
यत्राद्भुतैकधाम्नि रूपे एकत्र दक्षिणार्धे भुजंगानां वासुकिप्रभृतीनां भोगाः फणा-

स्तेषां भङ्गिर्विच्छित्तिः स्फुरत्युल्लसति । परत्रान्यस्मिन्देव्यर्थेधे नीलोत्पलदलमालिका

स्फुरति । तथा एकत्र भगवदर्घेधे भास्मनोऽङ्गरागः शुभ्रत्वं प्रथयति विस्तारयति । परत्र

देव्यर्धे मलयजरञ्जनं चन्दनेन रञ्जनं च शुभ्रत्वं प्रथयति । तथा एकत्र दक्षिणार्धे विषं

कालकूटाख्यं कार्ष्ण्यं कृष्णत्वमर्पयति । परत्र वामार्धे कस्तूरीकृतं पुण्ट्ड्रकं तिलकं ग

लस्य कार्ष्र्ण्यं कृष्णत्वमर्पयति । एकत्र दक्षिणार्धेऽस्थिमालिकानां द्युतिः कान्तिरमला

शुभ्रा प्रसरति । अन्यत्र वामार्घेधे मौक्तिकावलीनां द्युतिः कान्तिरमला शुभ्रा प्रसरति ।

तथा एकत्र भगवदर्घे सुधे स्रुतरुधिरा स्रुतलोहिता करीन्द्रकृत्तिर्गजेन्द्रचर्म भवति । परत्र

देव्यर्धेऽनश्वरमक्षयं कौसुम्भं वसनं वासो भवति । कुसुम्भेन रक्तं कौसुम्भम् । इत्यादी-

न्यन्यानि च वस्तूनि परस्परं विरुद्धान्यपि यत्र विचित्रधाभ्म्न्यद्भुतेऽर्धनारीश्वररूपे ए-

कत्वं दधति ॥ तिलकम् ॥
 
२९८
 

 
दन्तानां सितिमनि कज्जलप्रयुक्ते मालिन्येऽप्यलिकविलोचनस्य यत्र ।

रक्तत्वे करचरणाधरस्य चान्यो नान्योन्यं समजनि नूतनो विशेषः ॥ १३ ॥
 

 
यत्र यस्मिन्नर्धनारीश्वररूपेऽन्योन्यं परस्परं द्वयोरपि दक्षिणवामार्धयोर्दन्तानां रदानां

सितिमनि श्वेतत्वेऽन्यो नूतनो विशेषो न समजनि । द्वयोरर्धयोरपि दन्तानां सितिम्ना ।

तथा अलिकविलोचनस्य ललाटस्थनेत्रस्य कज्जलेन धूमेन कज्जलेन कृष्णरञ्जनेन च प्रयुक्ते

मालिन्ये कार्ष्ण्येऽपि नूतनो विशेषो न समजनि । भगवतो भगवत्याश्चाधिललाटस्थनेत्रतया
घू

धू
मसौवीराञ्जनमालिन्यसद्भावात् । तथा द्वयोरप्यर्धयोः करचरणाधरस्य करौ च चर

णौ चाघरौ च तत्करचरणारम् । समाहारे द्वन्द्वः । तस्य रक्तत्वेऽन्योन्यं परस्परं नूत-

नोऽन्यो विशेषो न समजनि नोत्पन्नः । द्वयोरप्यर्धयोस्तथैवावस्थानात् ॥
 

 
इतःपरमद्भुतस्यार्धनारीश्वररूपस्य भगवतः प्रथमदर्शने गणेन्द्राणां नन्दिमहाकाल-

प्रभृतीनां वितर्क:-

 
कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे ।

अर्धं वा कनकसमुदृग्रुचिः कचानां संत्यज्य न्यविशत किकिं गलैकदेशे ॥१४॥

 
सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः ।

क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ १९ ॥

 
यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे ।

संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ १६ ॥

 
इत्यादीन्प्रविदधुरेव यत्र तावत्संकल्पान्प्रथमसमागमे गणेन्द्राः ।

यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाम्बिकायाः ॥१७
 

(चक्कलकम्)
 
Digitized by Google