This page has been fully proofread once and needs a second look.

२१ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९७
 
तम् । तथा उपोड: प्राप्तो मौलिं चारुचन्द्रः शशी यस्य स तादृशं मुकुटं मौलिलिं बिभ्रा-

णम् । भगवतीपक्षे तु यद्वामार्धेधं काञ्चनाभिरामां काञ्चनवत्कनकवदभिरामां तादृशीं

कान्तितिं दधदपि प्रोन्मीलन्ति भुजान्गच्छन्तीति भुजगानि यानि शुभानि रम्याण्यङ्ग-

दानि केयूराणि तैरुपगूढम् । तथा उपोढः प्राप्तश्चारू रमणीयञ्श्चन्द्रः कर्पूरं येन तादृड्युङ्मु-

कुटं बिभ्राणम् । एतत्पक्षेऽपि उपोढश्चारुश्चन्द्रः शशी वा येन तत् ॥

 
आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् ।

अन्योन्यं गतमिति वाक्यमेकवक्त्रप्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८ ॥
 

 
यत्राद्भुते रूपे इत्यनेन प्रकारेन समवेतयोः शिवयोरकस्मादेव वक्रान्मुखात्प्रोद्भिन्नमु-

द्रुतमन्योन्यं परस्परं शब्दसाम्येनैकमेव वाक्यं सामरस्यं समो रसो यत्र तत्समरसं तस्य

भावस्तं घटयत्युत्पादयति । इति किमित्याह — आश्चर्यमित्यादि । भगवत्पक्षे देवीं प्रति

वाक्यम् – हे दयिते प्रियतमे गौरि, भवेन संसारेण ये उपतापं भजन्ति तादृशां देहिनां

हितमनुकूलं कर्तुतुं किमपि लोकोत्तरं तवाश्चर्यमद्भुतं प्रागल्भ्यम् । भगवतीपक्षे भगवत्याः

शिवं प्रति वाक्यं तदेव - हे दयित प्रियतम, इत्याश्चर्येयं भवति । इति किमिति । प्रागल्भ्यं

किमपि भवति । किं कर्तुम् । ईहितमभिलषितं विधातुम् । केषाम् । भवोपतापभाजां

संतप्तानां वा ॥
 

 
प्रत्यङ्गं घनपरिरम्भतः प्र॒कम्पं वामार्धेधं भुजगभयादिवैति यत्र ।

यत्रापि स्फुटपुलकं चकास्ति शीतस्वः सिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९ ॥
 

 
यत्राद्भुते रूपे वामार्धेधं देव्यर्घेघं घनमतिनिबिडं यत्परिरम्भणमाश्लेषस्तस्मात्प्रकम्पं सा-

त्त्विकभावमेति लभते । कस्मादिव कम्पमेति । भुजगभयादिव । भयेनापि रोमोद्गमो

भवति । यत्रापि दक्षिणार्धेधं भगवदर्घेघं घनपरिरम्भतो देव्या अतिनिबिडपरिरम्भणात्स्फु-

टपुलकं चकास्ति । कयेव । शीतस्वः सिन्धुस्रपिततयेव । शीता अतिशीतला या स्व:-

सिन्धुर्गङ्गा तया स्नपितं तस्य भावस्तत्ता तयेव । शीतेनापि पुलकोद्गमो भवति ॥

 
एकत्र स्फुरति भुजंगभोगभङ्गिर्नीलेन्दीवरदलमालिका परत्र ।
 

एकत्र प्रथयति भास्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १० ॥

 
एकत्रार्पयति विषं गलस्य कार्ष्र्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र ।
 

एकत्र द्युतिरमलास्थिमालिकानामन्यत्र प्रे[^१]प्रसरति मौक्तिकावलीनाम् ॥ ११ ॥

 
एकत्र खुस्त्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र ।

इत्यादीन्यपि हि परस्परं विरुद्धान्येकेत्वं[^२] दधति विचित्रधाम्नि यत्र ॥१२॥
 

(तिलकम्)
 
Digitized by Google
 

 
[^
]. 'प्रथयति' ख.
[^
]. 'ऐकध्यं' ख.
३८