This page has not been fully proofread.

२१ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९७
 
तम् । तथा उपोड: प्राप्तो मौलिं चारुचन्द्रः शशी यस्य स तादृशं मुकुटं मौलि बिभ्रा-
णम् । भगवतीपक्षे तु यद्वामार्धे काञ्चनाभिरामां काञ्चनवत्कनकवदभिरामां तादृशीं
कान्ति दधदपि प्रोन्मीलन्ति भुजान्गच्छन्तीति भुजगानि यानि शुभानि रम्याण्यङ्ग-
दानि केयूराणि तैरुपगूढम् । तथा उपोढः प्राप्तश्चारू रमणीयञ्चन्द्रः कर्पूरं येन तादृड्यु-
कुटं बिभ्राणम् । एतत्पक्षेऽपि उपोढश्चारुश्चन्द्रः शशी वा येन तत् ॥
आश्चर्य तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् ।
अन्योन्यं गतमिति वाक्यमेकवऋप्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ ८ ॥
 
यत्राद्भुते रूपे इत्यनेन प्रकारेन समवेतयोः शिवयोरकस्मादेव वक्रान्मुखात्प्रोद्भिन्नमु-
द्रुतमन्योन्यं परस्परं शब्दसाम्येनैकमेव वाक्यं सामरस्यं समो रसो यत्र तत्समरसं तस्य
भावस्तं घटयत्युत्पादयति । इति किमित्याह — आश्चर्यमित्यादि । भगवत्पक्षे देवीं प्रति
वाक्यम् – हे दयिते प्रियतमे गौरि, भवेन संसारेण ये उपतापं भजन्ति तादृशां देहिनां
हितमनुकूलं कर्तु किमपि लोकोत्तरं तवाश्चर्यमद्भुतं प्रागल्भ्यम् । भगवतीपक्षे भगवत्याः
शिवं प्रति वाक्यं तदेव - हे दयित प्रियतम, इत्याश्चर्ये भवति । इति किमिति । प्रागल्भ्यं
किमपि भवति । किं कर्तुम् । ईहितमभिलषितं विधातुम् । केषाम् । भवोपतापभाजां
संतप्तानां वा ॥
 
प्रत्यङ्गं घनपरिरम्भतः प्र॒कम्पं वामार्धे भुजगभयादिवैति यत्र ।
यत्रापि स्फुटपुलकं चकास्ति शीतस्वः सिन्धुस्नपिततयेव दक्षिणार्धम् ॥ ९ ॥
 
यत्राद्भुते रूपे वामार्धे देव्यर्घे घनमतिनिबिडं यत्परिरम्भणमाश्लेषस्तस्मात्प्रकम्पं सा-
त्त्विकभावमेति लभते । कस्मादिव कम्पमेति । भुजगभयादिव । भयेनापि रोमोद्गमो
भवति । यत्रापि दक्षिणार्धे भगवदर्घे घनपरिरम्भतो देव्या अतिनिबिडपरिरम्भणात्स्फु-
टपुलकं चकास्ति । कयेव । शीतस्वः सिन्धुस्रपिततयेव । शीता अतिशीतला या स्व:-
सिन्धुर्गङ्गा तया नपितं तस्य भावस्तत्ता तयेव । शीतेनापि पुलकोद्गमो भवति ॥
एकत्र स्फुरति भुजंगभोगभङ्गिर्नीलेन्दीवरदलमालिका परत्र ।
 
एकत्र प्रथयति भास्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ १० ॥
एकत्रार्पयति विषं गलस्य काष्र्ण्य कस्तूरीकृतमपि पुण्ड्रकं परत्र ।
 
एकत्र द्युतिरमलास्थिमालिकानामन्यत्र प्रेसरति मौक्तिकावलीनाम् ॥ ११ ॥
एकत्र खुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र ।
इत्यादीन्यपि हि परस्परं विरुद्धान्येकेत्वं दधति विचित्रधाम्नि यत्र ॥१२॥
 
(तिलकम्)
 
Digitized by Google
 
१. 'प्रथयति' ख. २. 'ऐकध्यं' ख.
३८