This page has been fully proofread once and needs a second look.

२९६
 
काव्यमाला ।
 
यदर्घ
यदर्धनारीश्वररूपमेकत्रार्घे
 
ईश्वरार्धे स्फटिकशिलावदमलं धवलं तथान्यत्रार्घे प्रत्यमं

नवं यहुद्द्रुतं गलितं कनकं हेम तद्वदुज्ज्वलं एवंभूतं सद्बालार्कस्य द्युतिभरेण पिञ्जर एको

भागो यस्य स तादृशो यः प्रालेयक्षितिरो हिमाचलस्तस्य शृङ्गं शिखरं तस्य भ
ङ्गिं
विच्छित्तिमेति लभते ॥
 

अधुनार्धनारीश्वररूपेऽपि वामार्धमागस्य देवीरूपस्य वर्णनां करोति-

 
यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः ।

मध्यं च क्रशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसंचयाञ्चितं च ॥ ४ ॥

 
साभोगं घननिबिडं नितम्बबिम्बं पादोऽपि स्फुटमणिनूपुराभिरामः ।

आलोक्य क्षणमिति नन्दिनोऽप्यकस्मादाश्चर्यं परमुदभूदभूतपूर्वम् ॥५॥
 

(युगलकम्)
 

 
यत्र देवीरूपार्धमाभागे एकं चक्षुर्वामं चकितकुरङ्गस्य त्रस्त मृगशावकस्येव भक्तिर्यस्य
ङ्गिर्यस्य
तत्तादृशं भवति । तथा यत्र वामार्धे वक्षः प्रोन्मीलच्चासौ कुच एव कलश: कुचकल-

शस्तेनोपशोभत इति तादृशं भवति । तथा यत्रार्धे मध्यं च क्रशिम्नातिकृशत्वेन समेतं

भवति । तथा उत्तमाङ्गं शिरश्च भृङ्गानां भ्रमराणामाली पङ्किस्तस्या इव रुचिर्येषां ते

तादृशा ये च केशास्तेषां संचयेन समूहेनश्ञ्चितं रम्यं भवति । तथा यत्र वामार्धे साभोगं

सविस्तारं घनं पीवरं निबिडं दृढं नितम्बबिम्बमस्ति । तथा पादोऽपि वामः स्फुटश्चासौ

मणिनूपुरस्तेनाभिरामः । इत्येवंभूतं रूपं क्षणमालोक्य दृष्ट्वा नन्दिनोऽपि शिलादनन्दन-

स्यापि प्रमथवरस्य परमुत्कृष्टमभूतपूर्वमाश्चर्यमासीत् ॥ युग्मम् ॥

अधुना तस्याद्भुतस्य रूपस्य दक्षिणवामार्धद्वयमपि वर्णयति-
यत्रा

 
यत्रार्धं
घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् ।

अर्धं च प्रणिहितकुङ्कुमाङ्गरागं पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ ६ ॥

 
यत्राद्भुते रूपे भूरिभूत्या बहुलभस्मना शुभ्रमर्धं दक्षिणार्धं चन्द्रांशुभिश्छुरितो व्याप्तो

यः कुबेरशैलः कैलासगिरिस्तस्य शोभां घटयत्युत्पादयति । तथा अर्धेधं वामार्धेधं प्रणिहितः

कुङ्कुमस्य कश्मीरजन्मनोऽङ्गरागो यत्र तादृशं सत्पर्यस्ता समन्तात्पतिता अरुणस्य सूर्यस्य

रुचिर्यस्मिमिंस्तादृशो यः काश्ञ्चनाद्रिर्मेरुगिरिस्तस्य मुद्रां घटयत्युत्पादयति॑ [^१]
 

 
यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम्
बिभ्राणं मुकुटमुपोढचारुचन्द्रं संधत्ते सपदि परस्परोपमानम् ॥ ७ ॥

 
यदद्भुतमर्धनारीश्वररूपं सपदि सद्यः परस्परमुपमानमौपम्यं शब्दश्लेषेणान्योन्य-

साम्यं च संधत्ते । यथा ईश्वरपक्षे यद्दक्षिणार्धेधं कांचनानिर्वाच्यां शोभां दधदपि प्रोन्मी-

लन्तो भुजगा वासुक्यादयो नागास्त एव शुभान्यङ्गदानि केयूराणि तैरुपगूढमालिङ्गि-
Digitized by Google