This page has been fully proofread once and needs a second look.

२१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९५
 
दोषः । तथा सहस्रनयनं सहस्राक्षं हरिमिन्द्रं चरणपङ्कजान्तः स्थितिं चरणावेव पङ्कजे त-

योरन्ते समीपे स्थितिर्यस्य स तादृशं विमृश्य वृतविस्मयां तो विस्मय आश्चर्यं यया

सा तादृशीं भगवर्तीतं पार्वतीमवेक्ष्योद्गतमुत्पन्नं शर्वस्य श्रीशिवस्य प्रभोर्हसितं मे ममा-

भिमताप्तयेऽस्तु । अत्र सहस्रपादस्य रवेः पादान्त एव स्थितिर्युक्ता सहस्रनयनस्य च न-

यन एव स्थितिर्युक्तासीत्तदनपेक्ष्य स्वातन्त्र्येण प्रभुणान्यथा विहितत्वाद्भगवत्या आश्च-

यो
द्भव इति ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरा जानकश्रीरत्नकण्ठविरचितया लघुपश्ञ्चिकया

समेतं काश्मीरिकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य

स्तुतिकुसुमाञ्जलौ हसितस्तोत्रं विंशम् ।
 

 
एकविंशं स्तोत्रम् ।
 
-
 

 
इदानीमर्धनारीश्वरस्तोत्रमेकावँविंशमारभमाण आह-

 
वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् ।

अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १ ॥

 
अमलाः श्वेता मयूखा रश्मयो यस्य सोऽमलमयूखश्चन्द्रो मौलिरत्नं यस्य तत् । ए-

तद्विशेषणमुभयत्र देहार्धद्वयेऽपि सामान्यम् । तथा ईश्वरार्धपक्षे प्रकटितानि सर्वाणि

मङ्गलानि यया सा तादृशी आख्या अभिधा यस्य तत्प्रकटितसर्वमङ्गलाख्यम् । देवी-

पक्षे प्रकटिता सर्वमङ्गला इत्याख्या येन तत् । सर्वाणि मङ्गलानि यस्यां सर्वमङ्गलदा-

यित्वाच्ञ्च सर्वमङ्गला पार्वती । 'शर्वाणी सर्वमङ्गला' इत्यमरः । तथा ईश्वरपक्षे अहीनां

सर्पाणामिना इन्द्रा वासुक्यादयस्त एव कङ्कणा अङ्कं चिह्नं यस्य तत् । देवीपक्षे न हीना

अहीनाः कङ्कणा अङ्के मध्ये यस्य तत्तादृशम् । तथा अन्योन्यं परस्परं सदृशम् । शब्द-

साम्येन । एवंभूतमुमार्धेन पार्वत्यर्धेन रुद्धा मूर्तिर्यस्य स तादृशं देवस्य श्रीशंभोर्देहार्ध -

योर्द्वितयं वयं वन्देमहि । शब्दश्लेषोऽलंकारः ॥
 

 
तद्वन्दे गिरिपतिपुत्रिका र्धमिश्रं क्षैकण्ठं वपुरपुनर्भवाय यत्र ।
 

वक्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥२॥
 

 
गिरिपतेर्हिमाद्रेः पुत्रिका पार्वती तदर्धेन मिश्रं समवेतं श्रैकण्ठं पारमेश्वरं वपुरर्ध-

नारीश्वररूपमपुनर्भवायाभूयोजन्मनेऽहं वन्दे । तत्किमित्याह — यत्रेत्यादि । यत्रार्धनारी-

श्वररूपे मुकुटगतो मुकुटस्थो मृगाङ्कखण्डश्चन्द्रार्धरूपः खण्डितस्यार्धनारीश्वररूपविधा-

नाय देव्या वक्रेन्दोर्मुखेन्दोः साधर्म्यं सादृश्यं घटयति कुरुते । एतद्रूपविधानाय खण्डि-

तदेवीवकार्घक्त्रर्धमिव मुकुटस्थो मृगाङ्कखण्डो भातीत्यर्थः ॥
 

 
एकत्र स्फटिकशिलामलं यदर्भेधे प्रत्यप्ग्रद्रुतकनकोज्ज्वलं परत्र ।

बालार्कद्युतिभरपिञ्जरैकभागप्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३ ॥
 
Digitized by Google