This page has not been fully proofread.

२१ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९५
 
दोषः । तथा सहस्रनयनं सहस्राक्षं हरिमिन्द्रं चरणपङ्कजान्तः स्थितिं चरणावेव पङ्कजे त-
योरन्ते समीपे स्थितिर्यस्य स तादृशं विमृश्य वृतविस्मयां तो विस्मय आश्चर्य यया
सा तादृशीं भगवर्ती पार्वतीमवेक्ष्योगतमुत्पन्नं शर्वस्य श्रीशिवस्य प्रभोर्हसितं मे ममा-
भिमताप्तयेऽस्तु । अत्र सहस्रपादस्य रवेः पादान्त एव स्थितिर्युक्ता सहस्रनयनस्य च न-
यन एव स्थितिर्युक्तासीत्तदनपेक्ष्य स्वातन्त्र्येण प्रभुणान्यथा विहितत्वाद्भगवत्या आब-
यद्भव इति ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरा जानकश्रीरत्नकण्ठविरचितया लघुपश्चिकया
समेतं काश्मीरिकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य
स्तुतिकुसुमाञ्जलौ हसितस्तोत्रं विंशम् ।
 
एकविंशं स्तोत्रम् ।
 
-
 
इदानीमर्धनारीश्वरस्तोत्रमेकावँशमारभमाण आह-
वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् ।
अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ १ ॥
अमलाः श्वेता मयूखा रश्मयो यस्य सोऽमलमयूखश्चन्द्रो मौलिरत्नं यस्य तत् । ए-
तद्विशेषणमुभयत्र देहार्धद्वयेऽपि सामान्यम् । तथा ईश्वरार्धपक्षे प्रकटितानि सर्वाणि
मङ्गलानि यया सा तादृशी आख्या अभिधा यस्य तत्प्रकटितसर्वमङ्गलाख्यम् । देवी-
पक्षे प्रकटिता सर्वमङ्गला इत्याख्या येन तत् । सर्वाणि मङ्गलानि यस्यां सर्वमङ्गलदा-
यित्वाच्च सर्वमङ्गला पार्वती । 'शर्वाणी सर्वमङ्गला' इत्यमरः । तथा ईश्वरपक्षे अहीनां
सर्पाणामिना इन्द्रा वासुक्यादयस्त एव कङ्कणा अङ्कं चिह्नं यस्य तत् । देवीपक्षे न हीना
अहीनाः कङ्कणा अङ्के मध्ये यस्य तत्तादृशम् । तथा अन्योन्यं परस्परं सदृशम् । शब्द-
साम्येन । एवंभूतमुमार्धेन पार्वत्यर्धेन रुद्धा मूर्तिर्यस्य स तादृशं देवस्य श्रीशंभोहा -
योद्वितयं वयं वन्देमहि । शब्दश्लेषोऽलंकारः ॥
 
तद्वन्दे गिरिपतिपुत्रिका मिश्रं क्षैकण्ठं वपुरपुनर्भवाय यत्र ।
 
वक्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्य मुकुटगतो मृगाङ्कखण्डः ॥२॥
 
गिरिपतेर्हिमाद्रेः पुत्रिका पार्वती तदर्धेन मिश्रं समवेतं श्रैकण्ठं पारमेश्वरं वपुरर्ध-
नारीश्वररूपमपुनर्भवायाभूयोजन्मनेऽहं वन्दे । तत्किमित्याह — यत्रेत्यादि । यत्रार्धनारी-
श्वररूपे मुकुटगतो मुकुटस्थो मृगाङ्कखण्डश्चन्द्रार्धरूपः खण्डितस्यार्धनारीश्वररूपविधा-
नाय देव्या वक्रेन्दोर्मुखेन्दोः साधर्म्य सादृश्यं घटयति कुरुते । एतद्रूपविधानाय खण्डि-
तदेवीवकार्घमिव मुकुटस्थो मृगाङ्कखण्डो भातीत्यर्थः ॥
 
एकत्र स्फटिकशिलामलं यदर्भे प्रत्यप्रद्रुतकनकोज्ज्वलं परत्र ।
बालार्कद्युतिभरपिञ्जरैकभागप्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ ३ ॥
 
Digitized by Google