This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
विविधरचनैः संभृते यत्र दोषैरुत्पद्यन्ते सततमरुचित्रासमोहप्रलापाः । संसाराख्यं तमति-

विषमं संनिपातं नराणामेको हर्तुं प्रभवति विभुर्लीलयासौ किरातः ॥' लीलया क्रीडया

किरात: शबररूपो विभुरीश्वरः संसाररूपं संनिपातं ज्वरविशेषं हतुर्तुं प्रभवति । किरातः

किराततिक्ताख्य ओषधिविशेषश्च संनिपातहरः । अन्यत्स्पष्टम् । तथा – 'भवजीर्णज्व-

रार्ताय मोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ॥' शोभनं दर्शनं

सुदर्शनं तस्यांशम्, सुदर्शनस्य जीर्णज्वरहरस्य चूर्णस्यांशं च । अन्यत्स्पष्टम् । तथा-

'स्मृतिर्यत्र क्वापि स्वपरविषये नैव हि भवेट्टद्व्रथायासा जाताः सततमिह धन्वन्तरिमुखाः।

विनैकस्माच्छंभोः सदयनयनोद्वीक्षणलवाद्भवापस्मारोऽयं विषमविषमः शाम्यति क

थम् ॥' अत्र भवः संसार एवापस्मारो महारोगः । अन्यत्स्पष्टम् । तथा- 'हा हा म

हार्त्यास्मि विमोहितोऽहं जरादिदुःखेन सदैकशूली । त्रिशूलिनं तं त्रिजगत्प्रसिद्धं चिकि

त्सकं यामि पदस्य शान्त्यै ॥' एकं शूलं रुग्यस्यास्तीत्येकशूली। 'अस्त्री शूलं रुगायुधम्'

इति मङ्खः । त्रिशूलमायुधविशेषः । त्रीणि शूलान्यस्य सन्तीति त्रिशूली तं च ।
 

अन्यत्स्पष्टम् ॥
 

 
नमो जन्मजरामृत्युभीतिसातङ्कपालिने ।

करुणामृतसंपर्कपेशलाय कलापिने ॥ ९ ॥
 

 
नम इति । कपालं ब्रह्मकपालमस्यास्तीति कपाली तस्मै कपालिने श्रीशिवाय न-

मोऽस्तु । किंभूताय । जन्मेति । जन्म च जरा च मृत्युश्च तेभ्यो या भीतिस्तया ये सा-

तङ्काः सदुःखास्तान्पालयतीति तादृशाय । तथा करुणैवामृतं तेन यः संपर्कस्तेन पेश-

लाय तस्मै ।
 

 
नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे ।
 

संसारमरुसंतापतापितापन्नबन्धवे ॥ १० ॥
 

 
नमो निसर्गेति । निसर्गेण विघ्नेभ्यो निष्क्रान्तो यः प्रसादः स एवामृतं तस्य सिन्धुः

समुद्रस्तस्मै । तथा संसार एव मरुर्धन्वा तत्र यः संतापः सम्यक् ताप आध्यात्मिका

धिदैविकाधिभौतिकरूपेण त्रिविधस्तेन तापिता ये आपन्ना आपद्गताः शरणागता वा

तेषां बन्धुस्तस्मै श्रीशिवाय नमोऽस्तु ॥
 

 
नमः सान्द्रामृतस्यन्दिघनध्वनितशोभिने ।
 

महाकालाय भीष्मोष्मभवग्रीष्मक्मच्छिदे ॥ ११ ॥
 

 
नमः सान्द्रेति । कल्पविरमे संहारकारको महाकालः श्रीशिवस्तस्मै नमोऽस्तु ।

किंभूताय । सान्द्रेति । सान्द्रं च तदमृतं कृपामृतं निःश्रेयसरूपं वा स्यन्दत इति तादृशं

यद्ध्
वनितं शब्दो भक्ताभयदानाय प्रसादवाक्यं तेन शोभत इति तादृशाय । तथा भीष्मो

भयावह ऊष्मा यस्य तादृशश्वासौ भवः संसार एव ग्रीष्मो निदाघस्तेन यः क्लमः खेदस्तं
 
Digitized by Google