2023-02-23 21:27:47 by ambuda-bot
This page has not been fully proofread.
२९४
काव्यमाला ।
येन व्यधा मुखमखण्डसितांशुकान्तं
देव्या वपुश्च पुलकोच्छुसितांशु कान्तम् ॥ ३९ ॥
स्वामिन्नुदारघनसारतुषारहार-
कह्लारशारदनिशारमणोपमेन ।
तापं तमश्च विषमं जहि मे सहेल-
मुल्लासितेन हसितेन सितेन तेन ॥ ४०॥ (युगलकम् )
हे स्वामिन्, दिव्यं लोकोत्तरं धृतोऽमृतरसो येन तत्तादृशं च गिरि वाण्यां सानु -
कम्पं सहानुकम्पया कृपया वर्तते यत्तत्तादृशं रूपं निजं प्रदर्श्य गिरिसानुकम्पं गिरेः
प्रकृतत्वाद्धिमाद्रेः सानूनि शिखराणि तेषां कम्पं विदधत्कुर्वस्त्वं येन विलासहसितेन
देव्याः पार्वत्या मुखमखण्ड: पूर्णो यः सितांशुश्चन्द्रस्तद्वत्कान्तं रम्यं प्रमोदेन व्यधा
अकरोः । तथा देव्या वपुश्च पुलकै रोमाईर्षोद्गतैरुच्छ्छुसितोंऽशुकान्तो वस्त्रप्रान्तो य
स्मिस्तादृशं व्यधास्तेन विलासहसितेनेति प्राग्वद्योजना । घनस्येव सारो यस्य शैत्याद्ध-
नसारः कर्पूरम् । 'कस्य जलस्य हार इव । शोभाकरत्वात् । पृषोदरादित्वे कहारम्'
इति स्वामी । 'शारदं शुक्लं चैतत्' इति च । रायमुकुटीकारस्तु 'के जले ह्लादते सुखं
तिष्ठतीति नैरुक्ते । दकारस्य रेफे कहारमिति पञ्चिकादयः । सौगन्धिकं तु कहारम् ।
सौगन्धी इति रक्तपुष्पस्य' इत्याह । हे स्वामिन्, उदारो महांश्चासौ घनसारः कर्पूरम् ।
तुषारो हिमम् । हारो मुक्ताहारः । कहारः शारदं शुक्लं जलजम् । शारदनिशाकरः श-
रत्पूर्णेन्दुः । तैरुपमा यस्य तत्तादृशेन । सहेलमुल्लासितेनोद्घाटितेन सितेन धवलेन तेन
इसितेन विलासहसितेन मे मम वराकस्य तापमाध्यात्मिकाधिदैविकाधिभौतिक भेदेन
त्रिविधमेव संतापं तथा तमोऽविद्यापर्यायमज्ञानमेव तमो ध्वान्तं विषमं कठिनं जहि
दूरीकुरु ॥
इदानीमेतत्स्तोत्रं विंशमुपसंहरमाह-
सहस्रचरणं रवि नयनपङ्कजान्तः स्थितं
सहस्रनयनं हरिं चरणपङ्कजान्तः स्थितम् ।
विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं
प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥ ४१ ॥
अत्र वृत्ते प्रभोः परमेश्वरस्य स्वातन्त्र्यं वर्णयति कविः । यथा सहस्रं चरणाः पादा
रश्मयो यस्य स सहस्रचरणस्तादृशं रविं सूर्य विभोर्नयनपङ्कजान्तःस्थितिं नेत्रपद्मान्तः-
स्थितिर्यस्य स तादृशं विमृश्य । अत्र पादशब्दार्थे चरणशब्दस्य नेयार्थत्वं भक्तिविषये न
१. 'युगलकम्' क-पुस्तके नास्ति. २. 'वः' ख.
Digitized by Google