This page has been fully proofread once and needs a second look.

२० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यस्या दृगञ्चलविलोकनमात्रमेव
 

संभावनं तु वचसा वचसामभूमिः ॥ ३६ ॥
 

 
ईश्वरः पार्वतीमवदत् – हे गौरि, अहं मन्ये । अभाग्यभाजामभाग्यवतामलभ्यमप्राप्यं

भवान्तराणां जन्मान्तराणां शतैरुपचितमर्जितं यत्पुण्यं स एव महीरुट् द्रुमस्तस्य फलं

फलभूतम् । आरोपः । यस्यास्तव दृगन्तविलोकनमात्रमेव फलं भवति । तुः पक्षा-

न्तरे । वचसा संभावनं सादरीकरणं तु वचसामभूमिरनिर्वाच्यम् ॥
 

 
सा त्वं महार्घगुणरत्नसमुद्रवेला

लावण्यसिन्धुरकलङ्ककुलप्रसूतिः ।

सौभाग्यभाग्यविभवादिभवाभिमान-

भूमानमानयसि यं तपसा प्रसादम् ॥ ३७ ॥
 

 
सापि त्वं महार्घाणां गुणरत्नानां समुद्र उत्पत्तिस्थानं तस्य वेला । तथा लावण्यस्य

सिन्धुर्नदी । तथा अकलङ्कं यत्कुलं गिरिवरस्य हिमालयस्य तस्मात्प्रसूतिर्यस्यास्तादृशी

सती सौभाग्यं सुभगत्वं च भाग्यानि च तेषां विभवस्तदादिभवोऽभिमानभूमाहंकारबा-

हुल्यं यस्य स तादृशं सौभाग्यभाग्यविभवादिभवाभिमानभूमानं यं धन्यं तपसा एवंवि
-
धेन प्रसादं प्रसन्नतां कर्मानयसि स कस्त्वं वदेति प्रतिश्लोकमन्वयः ॥
 

 
इत्थं विदग्धरसदिग्धकथाक्रमेण
 

देव्या समं समभिभाषणलोलुभस्य ।

यद्व्याजवर्णितरुणस्य तवावहित्थ-

संरुद्धमप्यतिभरेण समुद्भूव ॥ ३८ ॥
 
२९३
 

 
हे विभो, इत्थमनेन प्रकारेण विदग्धा निपुणा रसदिग्धा या कथा तस्याः क्रमेण

देव्या पार्वत्या समं सम्यगभिभाषणे लोलुभस्य । तथा व्याजेन यो वर्णितरुणो वर्णी ब्र-

ह्मचारी चासौ तरुणस्तद्रूपस्य तवावहित्थेनाकारगुप्त्या संरुद्धमपि पश्चाद्गतमपि यत्तव

विलासहसितमतिभरेणातिशयेन समुद्भूव समुत्पन्नं तेन विलाससितेन मम तापमध्या-

त्मिकादिभेदेन त्रिविधमेव तापं संतापं तथा तमोऽज्ञानं ध्वान्तं च विषमं जहि इत्यप्ग्रे

संबन्धः । 'अवहित्याथाकारगुप्तिः' इत्यमरः । 'विकृतस्य रोमाञ्चादेराच्छादनादबहिः स्थि-

तत्वादवहित्याथा स्त्रीत्वे । 'अवहित्थमथोग्रता' इति भरतोक्तत्वातत्क्लीबमपि' इति रायमु-

कुट्याम् । 'अवहित्थमित्येके' इति स्वामी ॥
 

 
रूपं प्रदर्श्य विदधद्विगिरि सानुकम्पं
 

दिव्यं धृतामृतरसं गिरिसानुकम्पम् ।
 
Digitized by Google