This page has not been fully proofread.

२० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यस्या दृगञ्चलविलोकनमात्रमेव
 
संभावनं तु वचसा वचसामभूमिः ॥ ३६ ॥
 
ईश्वरः पार्वतीमवदत् – हे गौरि, अहं मन्ये । अभाग्यभाजामभाग्यवतामलभ्यमप्राप्यं
भवान्तराणां जन्मान्तराणां शतैरुपचितमर्जितं यत्पुण्यं स एव महीरुट् द्रुमस्तस्य फलं
फलभूतम् । आरोपः । यस्यास्तव हगन्तविलोकनमात्रमेव फलं भवति । तुः पक्षा-
न्तरे । वचसा संभावनं सादरीकरणं तु वचसामभूमिरनिर्वाच्यम् ॥
 
सा त्वं महार्घगुणरत्नसमुद्रवेला
लावण्यसिन्धुरकलङ्ककुलप्रसूतिः ।
सौभाग्यभाग्यविभवादिभवाभिमान-
भूमानमानयसि यं तपसा प्रसादम् ॥ ३७ ॥
 
सापि त्वं महार्घाणां गुणरत्नानां समुद्र उत्पत्तिस्थानं तस्य वेला । तथा लावण्यस्य
सिन्धुर्नदी । तथा अकलङ्कं यत्कुलं गिरिवरस्य हिमालयस्य तस्मात्प्रसूतिर्यस्यास्तादृशी
सती सौभाग्यं सुभगत्वं च भाग्यानि च तेषां विभवस्तदादिभवोऽभिमानभूमाहंकारबा-
हुल्यं यस्य स तादृशं सौभाग्यभाग्यविभवादिभवाभिमानभूमानं यं धन्यं तपसा एवंवि
धेन प्रसादं प्रसन्नतां कर्मानयसि स कस्त्वं वदेति प्रतिश्लोकमन्वयः ॥
 
इत्थं विदग्धरसदिग्धकथाक्रमेण
 
देव्या समं समभिभाषणलोलुभस्य ।
यद्याजवर्णितरुणस्य तवावहित्थ-
संरुद्धमप्यतिभरेण समुद्रभूव ॥ ३८ ॥
 
२९३
 
हे विभो, इत्थमनेन प्रकारेण विदग्धा निपुणा रसदिग्धा या कथा तस्याः क्रमेण
देव्या पार्वत्या समं सम्यगभिभाषणे लोलुभस्य । तथा व्याजेन यो वर्णितरुणो वर्णी ब्र-
ह्मचारी चासौ तरुणस्तद्रूपस्य तवावहित्थेनाकारगुप्त्या संरुद्धमपि पश्चाद्गतमपि यत्तव
विलासहसितमतिभरेणातिशयेन समुद्रभूव समुत्पन्नं तेन विलासइसितेन मम तापमध्या-
त्मिकादिभेदेन त्रिविधमेव तापं संतापं तथा तमोऽज्ञानं ध्वान्तं च विषमं जहि इत्यप्रे
संबन्धः । 'अवहित्याकारगुप्तिः' इत्यमरः । 'विकृतस्य रोमाञ्चादेराच्छादनादबहिः स्थि-
तत्वादवहित्या स्त्रीत्वे । 'अवहित्थमथोग्रता' इति भरतोक्तत्वातलीबमपि' इति रायमु-
कुट्याम् । 'अवहित्थमित्येके' इति स्वामी ॥
 
रूपं प्रदर्श्य विदधद्विरि सानुकम्पं
 
दिव्यं धृतामृतरसं गिरिसानुकम्पम् ।
 
Digitized by Google