2023-02-23 21:27:47 by ambuda-bot
This page has not been fully proofread.
२९२
काव्यमाला ।
लोकानां सप्तानां भूरादीनां विषादो दुःखं येन स तादृशम् । तथा हेलया खेळयावलीढं
निगीर्ण विषं कालकूटाख्यो विषभेदो येन स तम् । तथा अश्रमं श्रमरहितं कृत्वा वीर्य-
वहिना वीर्याग्निना भस्मीकृतान्यहितान्यननुकूलानि पुराणि त्रीणि पुराणि येन स तं
धन्याः कवयः स्तुवन्ति ॥
कः स्वर्धुनीसवनवह्निनिषेवणादि-
धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः ।
कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म-
चर्यारतः क्षपितवानजिनावृताङ्गः ॥ ३४ ॥
स्वर्धुन्यां गङ्गायां यत्सवनं स्त्रानं तथा वहेस्तरुणाग्नेश्च निषेवणं तदादिकर्मणा धौतां
पवित्रां तनुं दधत् । तथा अनुज्झिता भैक्षवृत्तिर्भिक्षाणां समूहो भैक्षं तेन वृत्तिर्जीवनं
यस्य स तादृक् । तथा परिशुद्धोऽतिस्वच्छो यो धर्मः शास्त्रीयवचनपरिपालनरूपस्त-
स्मिन्रतः । तथा अजिनेन मृगचर्मणा आवृताङ्गः स को द्विजेन्द्राणां विप्रवराणां मुकुटो
मौलिभूतः कालं समयं क्षपितवान् । वहिस्तृतीयनयनस्थस्तस्य निषेवणम् । आदिना
सूर्यचन्द्रपरिग्रहः । तैर्घोतां निर्मलां तनुं दधत् । तथा अनुज्झितभैक्षवृत्तिः । तथा द्वि-
जानां नक्षत्राणामिन्द्रः शशी स मुकुटे यस्य स तादृक् । तथा परिशुद्धो धवलो यो
धर्मो वृषो वाहनभूतः शाक्करस्तत्र चर्यायां रतः । कालं यमं क्षपितवान् । दंदाहेत्यर्थः
उद्धूलितश्चितिरजोभिरखण्डमुण्ड-
मालाकरालशिखरः सुचिरं चचार ।
भीष्मश्मशानवसनव्यसनः कपाल-
खट्टाङ्गपाणिरतितीव्रमपि व्रतं कः ॥ ३९ ॥
चितिरजोभिरुद्धूलितोऽनुलिप्तः । तथा अखण्डा चासौ मुण्डानां नृमुण्डानां माला
तया करालं भीषणं शिखरं मौलिर्यस्य स तादृशः । तथा भीष्मं भयावहं यत् श्मशानं
पितृवनं तत्र यद्वसनं निवासस्तत्र व्यसनं हेवाको यस्य स तादृक् । तथा कपालं ख-
ट्वाङ्गं च ते पाणौ यस्य स तादृक् स कोऽतितीव्रमपि दुष्करमपि व्रतं चचार यं त्वं त
पसा प्रसन्नं कर्तुमिच्छसि । ईश्वरोऽपि महाप्रलयेषु कालाग्निरुद्ररूपेण संहारितानां ब्रह्मा-
दीनां निर्दग्धानां चितिरजोभिरुद्धूलितोऽनुलिप्तः । तथा तेषामेवाखण्डमुण्डमालया पू-
रितमुकुटः । प्रागुक्तक्रमेण भीषणश्मशानवासव्यसनी कपालखवाङ्गपाणिश्च ॥
मन्ये भवान्तरशतोपचितस्य पुण्य-
पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् ।
Digitized by Google