This page has been fully proofread once and needs a second look.

२० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
२९१
 
वानां द्वन्द्वानि मिथुनानि । गायन्ति यं तपसा प्रसन्नं संपादयितुमिच्छसि । अथ च

विषम: शुभाशुभपरीक्षणात् उम्रो महाभीषणो यः कालो मृत्युस्तेन संरुद्धा शक्तिर्यस्य

स तादृशो यः शरणागतः प्रसिद्ध्या श्वेताख्यो नृपस्तस्य रक्षणं कालफणिपाशाद्रक्षणं त

दर्थेथं विषदं स्वच्छमपदानं कालदाहरूपं द्युसदां द्वन्द्वानि चन्द्रातपधवलासु कार्तिकरा-

कारजनीषु कस्यार्थान्मम मत्तोऽन्यस्य कस्य वा गायन्ति यं मां तपसा प्रसन्नं

संपादयसि ॥
 

 
केनेश्वरेण महता वहतात्रिनेत्र-

संजातकान्ति वपुरद्भुतभूतिभूषम् ।

उद्दामकामशितमार्गणदौर्मनस्य-

वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ ३२ ॥
 

 
हे गौरि, अत्रेरत्रिनाम्नो मुनीश्वरस्य नेत्रं ततः संजातश्चन्द्रः । 'आत्रेयः क्षणदाकरः'

इत्यमरः । तत्सदृशी कान्तिर्यस्य तत् । तथा अद्भुता आश्चर्यकारिणी भूतिः संपत्तिरेव

भूषा तथा वा भूषा यस्य तत् । तादृशं वपुर्वहता धारयता । तथा इद्धं दीप्तं महस्तेजो

यस्य स तादृशेन केन महता ईश्वरेण सर्वतो महासमर्थेन उद्दामा उद्भटा: कामा अभि

लाषा येषां तादृशा अत एव शिता अतिक्रुद्धास्तस्य ये मार्गणाः शरास्तेषां मार्गणा

अर्थिनस्तेषां दौर्मनस्यं स्वाभिलषिताप्राप्तिलक्षणं तेन यद्वैरस्यं तत्सहसा तत्क्षणमेव तेन

केन धन्येन निरस्तं यं तपसा प्रसन्नं कर्तुमिच्छसि । अथ च त्रिभिर्नेत्रैः सूर्येन्दुवह्निधा-

मभिः कान्तिर्यस्य तत् तादृशं वपुर्वहता । तथा अद्भुता आश्चर्यकारिणी भूत्या भस्मना

भूषा विच्छित्तिर्यस्य तत्तादृशं वपुर्वहता महता ईश्वरेण महेश्वरेण शंभुना उद्दाम उद्भटो

यः कामस्तस्य ये शितास्तीक्ष्णा मार्गणाः शरास्तेषां दौर्मनस्यं पैशुन्यं तेन वैरस्यं नि-

रस्तं दूरीकृतम् ॥
 

 
धन्याः कमस्खलितपौरुषभग्नभूरि-

दर्पान्धकन्दलितलोकविषादमुच्चैः

हेलावलीढविषमश्रमवीर्यवद्विह्नि-

भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ ३३ ॥

 
हे गौरि, अस्खलितेन निर्निरोधेन पौरुषेण भनञ्ग्नश्चलितो

भूरिद
र्पणान्धानां लोकानां

कन्दलितः पल्लवितो वृद्धिंगतो लोकानां विषादो येन स तम् । तथा हेलयावलीढो

निर्नाशितो विषमः श्रमो येन स तादृशो यो वीर्यवन्हिर्वीर्यमेवाभिग्निस्तेन भस्मीकृतान्यहि-

तानां शत्रूणां पुराणि नगराणि येन स तादृशं कं धन्याः कवयः स्तुवन्ति यं तपसा

प्रसादयसि । प्राग्वदीश्वरमपि किंभूतम् । अस्खलितेन पौरुषेण भमःग्नः संहारितो भूरिदर्पो

महागर्ववानन्धकोऽन्धकाख्योऽसुरो येन तम् । तथा उच्चैः कृत्वा दलितः खण्डितः
 
Digitized by Google