2023-02-23 21:27:47 by ambuda-bot
This page has not been fully proofread.
२० स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
२९१
वानां द्वन्द्वानि मिथुनानि । गायन्ति यं तपसा प्रसन्नं संपादयितुमिच्छसि । अथ च
विषम: शुभाशुभपरीक्षणात् उम्रो महाभीषणो यः कालो मृत्युस्तेन संरुद्धा शक्तिर्यस्य
स तादृशो यः शरणागतः प्रसिया श्वेताख्यो नृपस्तस्य रक्षणं कालफणिपाशाद्रक्षणं त
दर्थे विषदं स्वच्छमपदानं कालदाहरूपं सदां द्वन्द्वानि चन्द्रातपधवलासु कार्तिकरा-
कारजनीषु कस्यार्थान्मम मत्तोऽन्यस्य कस्य वा गायन्ति यं मां तपसा प्रसनं
संपादयसि ॥
केनेश्वरेण महता वहतात्रिनेत्र-
संजातकान्ति वपुरद्भुतभूतिभूषम् ।
उद्दामकामशितमार्गणदौर्मनस्य-
वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ ३२ ॥
हे गौरि, अत्रेरत्रिनाम्नो मुनीश्वरस्य नेत्रं ततः संजातश्चन्द्रः । 'आत्रेयः क्षणदाकरः'
इत्यमरः । तत्सदृशी कान्तिर्यस्य तत् । तथा अद्भुता आश्चर्यकारिणी भूतिः संपत्तिरेव
भूषा तथा वा भूषा यस्य तत् । तादृशं वपुर्वहता धारयता । तथा इद्धं दीप्तं महस्तेजो
यस्य स तादृशेन केन महता ईश्वरेण सर्वतो महासमर्थेन उद्दामा उद्भटा: कामा अभि
लाषा येषां तादृशा अत एव शिता अतिक्रुद्धास्तस्य ये मार्गणाः शरास्तेषां मार्गणा
अर्थिनस्तेषां दौर्मनस्यं स्वाभिलषिताप्राप्तिलक्षणं तेन यद्वैरस्यं तत्सहसा तत्क्षणमेव तेन
केन धन्येन निरस्तं यं तपसा प्रसन्नं कर्तुमिच्छसि । अथ च त्रिभित्रैः सूर्येन्दुवह्निधा-
मभिः कान्तिर्यस्य तत् तादृशं वपुर्वहता । तथा अद्भुता आश्चर्यकारिणी भूत्या भस्मना
भूषा विच्छित्तिर्यस्य तत्तादृशं वपुर्वहता महता ईश्वरेण महेश्वरेण शंभुना उद्दाम उद्भटो
यः कामस्तस्य ये शितास्तीक्ष्णा मार्गणाः शरास्तेषां दौर्मनस्यं पैशुन्यं तेन वैरस्यं नि-
रस्तं दूरीकृतम् ॥
धन्याः कमस्खलितपौरुषभग्नभूरि-
दर्पान्धकन्दलितलोकविषादमुच्चैः
हेलावलीढविषमश्रमवीर्यवद्वि-
भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ ३३ ॥
हे गौरि, अस्खलितेन निर्निरोधेन पौरुषेण भनञ्चलितो
र्पणान्धानां लोकानां
कन्दलितः पल्लवितो वृद्धिंगतो लोकानां विषादो येन स तम् । तथा हेलयावलीढो
निर्नाशितो विषमः श्रमो येन स तादृशो यो वीर्यवहिर्वीर्यमेवाभिस्तेन भस्मीकृतान्यहि-
तानां शत्रूणां पुराणि नगराणि येन स तादृशं कं धन्याः कवयः स्तुवन्ति यं तपसा
प्रसादयसि । प्राग्वदीश्वरमपि किंभूतम् । अस्खलितेन पौरुषेण भमः संहारितो भूरिदर्पो
महागर्ववानन्धकोऽन्धकाख्योऽसुरो येन तम् । तथा उच्चैः कृत्वा दलितः खण्डितः
Digitized by Google