This page has been fully proofread once and needs a second look.

२९०
 
काव्यमाला ।
 
तपसा प्रसादमानयसि प्रसन्नं संपादयसीत्यप्ग्रे कुलकान्ते 'सा त्वं' इत्यनेन संबन्धः ॥
नो

नी
ञ् द्विकर्मकः ।
 

इतः परं वृत्तषट्के शब्दश्लेषोक्त्या मिषेण स्वात्मानमुद्दिश्यापि भगवतो व्याज तरुणव-

र्
णिरूपस्य पार्वतीं प्रत्युक्तिः -
 

 
दुर्वारदुर्गतिनिकारकदर्थ्यमान-

मालोक्य लोकमखिलं विपुलाशयेन ।

सद्यः कृतं कनकवर्षणमिन्दुकान्त-

वर्ष्मात्विषा परमकारुणिकेन केन ॥ ३० ॥
 

 
दुर्वारा दुर्निवारा या दुर्गतिः कालकर्णीणीं तया कदर्थ्यमानं पीड्यमानमखिलं लोकम-

थिंजनमालोक्येन्दुवत्कान्ता रम्या वर्ष्मत्विद्ड् देहकान्तिर्यस्य स तादृशेन परमकारुणि-

केनातिकरुणावता विपुलाशयेनोदारचित्तेन केन कृतिना सद्यस्तादृशार्थिजन विलोकना-

नन्तरमेव कनकवर्षणमव्युच्छिन्नं कनकदानं कृतम् यं धन्यं तपसा प्रसन्नं संपादयसि ।

अथ च स्वमुद्दिश्य व्याजतरुणवर्णिरूपस्येश्वरस्योक्तिः–

दुर्वारविपदपमानकदर्थ्यमानम-

खिलं सर्वे लोकमौचित्यान्मरुत्तनृपपुरवासिनं लोकमालोक्येन्दुश्चन्द्रः कस्य शिरसोऽन्ते

यस्यास्तादृशी इन्दुनार्धचन्द्रेण कान्ता रम्या वा वर्ष्मत्विड् देहप्रभा यस्य स तादृशेन वि

पुलाशयेन परमकारुणिकेन निमेषमात्रेणापि त्रिजगदुद्धारकारिणा केनार्थान्मया मां

विना केन वा मरुत्तनृपपुरे कनकवर्षणं सप्ताहोरात्रावधि हेमवृष्टिः कृता । अतो जाने

मामेव तपसा प्रसन्नं संपादयितुमिच्छसीत्यर्थः ॥
 

 
गायन्ति कस्य विषदं विषमोग्रकाल-

संरुद्धशक्ति शरणागतरक्षणोत्थम् ।

द्वन्द्वानि नन्दनसदामपदानमिन्दु-

धौतासु कौमुदमहोत्सवयामिनीषु ॥ ३१ ॥
 

 
हे गौरि, विषम उच्चावचं वदन्नुप्ग्रो भयावहो यः कालस्तुरीययुगकालः कलिर्विप

त्कालो वा तेन संरुद्धा शक्तिर्येषां ते तादृशा ये शरणागता याचकजनास्तेषां सम्यग्र-

क्षणार्थं विषदं निर्मलमपदानं महादानोत्थमद्भुतं कर्म इन्दुना पूर्णचन्द्रेण धौतासु धव-

लीकृतासु कौमुदमहोत्सवयामिनीषु 'कुं भूमिं मोदयति पालनेन कुमुद्विष्णुस्तस्यायं प्रियः

कौमुदः कार्तिकः । तथा च नारदपुराणे - 'कौमुदस्य तु मासस्य या सिता द्वादशी

भवेत् । अर्चयेद्यस्तु मां भक्त्या तस्य पुण्यफलं शृणु ॥" इति । तथा महाभारतेऽपि-

कौमुदे शुक्लपक्षे तु योऽन्नदानं करोति हि । स संतरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥"

इति समयप्रदीपे धर्मशास्त्रनिबन्धे । महानुत्सवो यासु ता महोत्सवास्तादृश्यो यामिन्यो

रात्रयः । कौमुदकस्य कार्तिकस्य महोत्सवरात्रिषु कस्य धन्यस्यापदानं नन्दनसदां दे-
Digitized by Google