This page has not been fully proofread.

२० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
कल्पद्रुमैर्निधिभिरोषधिकामधेनु
चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य ।
किं दुर्लभं तव पितुर्भुवनातिशायि-
श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥ २७ ॥
 
२८९
 
हे बाले मुग्धे, कल्पद्रुमैर्देवढमैर्मन्दारपारिजातसंतान कल्पवृक्षहरिचन्दनैः पञ्चभि
स्तथा निधिभिर्महापद्मपद्मादिभिर्नवभिः तथौषधिभिः संजीवनीविशल्यीकरणाद्योषधिभिः
कामधेनुभिः सुरभ्यादिभिः चिन्तामणिप्रभृतिभिश्च रत्नविशेषैः परिष्कृतस्य भूषितस्य तव
पितुर्हिमालयाद्रेर्भुवनमतिशेते इति तादृशी या लक्ष्मीः श्रीस्तस्या धानि स्थाने धामनि
गृहे किं तद्वस्तु दुर्लभमस्ति यत्त्वं बाला तपोभिरतिकष्टप्रदैरर्थयसे मार्गयसि ॥
त्वं जीवितादपि गुरोरधिका स ताव-
दुत्पादयेत्तव न मैन्युमधीतनीतिः ।
संभाव्यते तव च नान्यकृतो निकारः
 
कुर्वीत केसरिसटाहठकर्षणं कः ॥ २८ ॥
 
हे वाले, त्वं गुरोः पितुर्जीवितादप्यधिका स्नेहभाजनमसि । स पिता तावदधीता
नीतिर्नीतिशास्त्रं येन स तादृक्तव मन्युमपमानकारणं क्रोधं नोत्पादयेत् । तथान्यकृतः
परेण केनचिद्विहितो निकारोऽपमानलक्षणश्च तवास्माभिर्न संभाव्यते । युक्तं चैतत्-
कः सचेतनः केसरिणः सिंहस्य सटानां हठेन कर्षणमाक्षेपं कुर्वीत । न कोऽपीत्यर्थः ॥
श्रद्धानुबन्धविहितव्रतहोमदान-
स्वाध्यायतीर्थगमनादिनिबन्धनानि ।
धन्यस्य कस्य फलितानि तुषारहार-
गौराणि गौरि सुकृतानि पुराकृतानि ॥ २९ ॥
 
हे गौरि । गौरादित्वान्ङीष् । गौरी कनकसप्रभदेहकान्तिः । तथा च स्कान्दे –
'इच्छामि देव दिव्यं च वपुः कनकसप्रभम्' इति । हे गौरि पार्वति, श्रद्धाया अनुबन्धेन
विहितानि शास्त्रोक्तेन विधिना कृतानि व्रतानि कृच्छ्रातिकृच्छ्रादीनि, होमा वाजपे-
याद्या यज्ञाः, दानानि च महादानानि षोडश, तीर्थानि गङ्गाप्रयागनैमिषपुष्करादीनि
तेषु यद्गमनं तदादि । आदिशब्देन स्वाध्यायमन्त्रपाठादि निबन्धनं हेतुर्येषां तानि ।
तुषारं हिमं हारो मुक्ताहारश्च तद्वद्गौराणि धवलानि कस्य धन्यस्य कृतिनः पुराकृतानि
प्राचीनानि सुकृतानि प्राग्जन्मोपार्जितानि फलितानि सा तादृशी त्वं यं धन्यं कर्मभूतं
 
१. 'रोषं' ख.
 
Digitized by Google