This page has been fully proofread once and needs a second look.

२८८
 
काव्यमाला ।
 
यत्रैष एव शरणं मम जीवितेशो

यद्वापरो हरति योऽखिलजन्तुवर्गम् ॥ २४ ॥
 

 
हे सखि जये, तावदेव कृकवाकुनादैः । कृकेन शिरोग्रीवेण वक्ति रौति । 'कृकेवचः

कश्च' इत्युण् । कृकवाकुः । 'कृकवाकुस्ताम्रचूड: कुक्कुटश्चरणायुधः' इत्यमरः । कृकवा-

कुनादैः कुक्कुटरवैर्हेतुभिर्मोमां प्रबोधितवता शठेन कितवेन दुर्वेधसा दुर्दैवेन तन्मत्प्रबोधन-

रूपं कर्माचरितं कृतम् । तत्किमित्याह - एष एव जीवितेश एव श्रीशंभुरेव मम केवलं

शरणं भवति यद्वा तदलाभे यो जीवितेशो यमोऽखिलजन्तुवर्गं सर्वप्राणिसमूहं हरति स्व-

सात्करोति स एव जीवितेशो मृत्युर्मम शरणम् । 'अद्य कान्तः कृतान्तो वा दुःख-

स्यान्तं करिष्यति' इतिवदत्रापि योजना । 'जीवितेशौ यमप्रियौ' इति मङ्गःखः

 
इत्यादितीव्रुविरहज्वरया जयायै

यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या ।

तच्छृण्वतो वनलतान्तरितस्य यत्ते
 

जातं प्रमोदभरनिर्भरमानसस्य ॥ २९ ॥
 

(पञ्चविंशत्या कुलकम्)
 

 
इत्यादि पूर्वोक्तप्रकारेण 'ध्यायन्त्यनन्यहृदया-' इत्यादि स्वप्नवृत्तं तीव्रो दुर्धरो विरह-

ज्वरो यस्याः सा तादृश्या गिरिराजपुत्र्या श्रीपार्वत्या जयायै जयानात्र्म्न्यै स्वसख्यै यदुदि-

तमुक्तं तदेव स्वप्नवृत्तं शृण्वत आकर्णयतो वनलताभिरन्तरितस्याच्छादितस्य तव ह.
-
र्षेण निर्भरं मानसं यस्य स तादृशस्य यद्विलासहसितं जातं तं नुतिभिर्भजाम इति सं-

बन्धः । पञ्चविंशतिश्लोकैः कुलकम् ॥
 

 
अथेदानीं श्रीशंभुमेव वरमवाप्तुं निजपितुर्हिमाद्रेः प्रदेशेषु महातपांसि चरन्त्याः श्री-

पार्वत्याः प्रसन्नाशयावबोधाय व्याजेन तरुणवर्णिरूपं विधायागतस्य शंभोर्भगवत्या सह

संवादवर्णनेन विलासहसितमुपश्लोकयञ्श्लोकत्रयोदशकेन कुलकमाह -

 
संजीवनौषधमिदं हरहुंकृताग्नि-

ज्वालावलीढवपुषः कुसुमायुधस्य ।

बाले सुधारसमये समये किमर्थ-

मायास्यते त्रिभुवनाभरणं शरीरम् ॥ २६ ॥
 

 
व्याजतरुणवर्णिरूपो भगवान्पार्वतीं प्रत्याह - हे बाले षोडशहायने मुग्धे च पार्वति,

हरस्य श्रीशंभोर्हुहुंकृतमेवाग्निस्तस्य ज्वालाभिरवलीढं ग्रस्तं वपुर्यस्य स तादृशस्य कुसुमा-

युधस्य कामस्य संजीवनार्थमाप्यायकमौषधं संजीवनौषधम् । आरोपः । तत्रापि त्रिभुवनस्य

सकलस्याभरणभूतम् । सुधारससमयेऽस्मिंस्तारुण्ये त्वया किमर्थमायास्यते खेद्यते ॥
 
Digitized by Google