2023-02-23 21:27:46 by ambuda-bot
This page has not been fully proofread.
२८८
काव्यमाला ।
यत्रैष एव शरणं मम जीवितेशो
यद्वापरो हरति योऽखिलजन्तुवर्गम् ॥ २४ ॥
हे सखि जये, तावदेव कृकवाकुनादैः । कृकेन शिरोग्रीवेण वक्ति रौति । 'कृकेवचः
कश्च' इत्युण् । कृकवाकुः । 'कृकवाकुस्ताम्रचूड: कुक्कुटश्चरणायुधः' इत्यमरः । कृकवा-
कुनादैः कुक्कुटरवैर्हेतुभिर्मो प्रबोधितवता शठेन कितवेन दुर्वेधसा दुर्दैवेन तन्मत्प्रबोधन-
रूपं कर्माचरितं कृतम् । तत्किमित्याह - एष एव जीवितेश एव श्रीशंभुरेव मम केवलं
शरणं भवति यद्वा तदलाभे यो जीवितेशो यमोऽखिलजन्तुवर्ग सर्वप्राणिसमूहं हरति स्व-
सात्करोति स एव जीवितेशो मृत्युर्मम शरणम् । 'अद्य कान्तः कृतान्तो वा दुःख-
स्यान्तं करिष्यति' इतिवदत्रापि योजना । 'जीवितेशौ यमप्रियौ' इति मङ्गः ॥
इत्यादितीव्रुविरहज्वरया जयायै
यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या ।
तच्छृण्वतो वनलतान्तरितस्य यत्ते
जातं प्रमोदभरनिर्भरमानसस्य ॥ २९ ॥
(पञ्चविंशत्या कुलकम्)
इत्यादि पूर्वोक्तप्रकारेण 'ध्यायन्त्यनन्यहृदया-' इत्यादि स्वप्नवृत्तं तीव्रो दुर्धरो विरह-
ज्वरो यस्याः सा तादृश्या गिरिराजपुत्र्या श्रीपार्वत्या जयायै जयानात्र्यै स्वसख्यै यदुदि-
तमुक्तं तदेव स्वप्नवृत्तं शृण्वत आकर्णयतो वनलताभिरन्तरितस्याच्छादितस्य तव ह.
र्षेण निर्भरं मानसं यस्य स तादृशस्य यद्विलासहसितं जातं तं नुतिभिर्भजाम इति सं-
बन्धः । पञ्चविंशतिश्लोकैः कुलकम् ॥
अथेदानीं श्रीशंभुमेव वरमवाप्तुं निजपितुर्हिमाद्रेः प्रदेशेषु महातपांसि चरन्त्याः श्री-
पार्वत्याः प्रसन्नाशयावबोधाय व्याजेन तरुणवर्णिरूपं विधायागतस्य शंभोर्भगवत्या सह
संवादवर्णनेन विलासहसितमुपश्लोकयञ्श्लोकत्रयोदशकेन कुलकमाह -
संजीवनौषधमिदं हरहुंकृताग्नि-
ज्वालावलीढवपुषः कुसुमायुधस्य ।
बाले सुधारसमये समये किमर्थ-
मायास्यते त्रिभुवनाभरणं शरीरम् ॥ २६ ॥
व्याजतरुणवर्णरूपो भगवान्पार्वतीं प्रत्याह - हे बाले षोडशहायने मुग्धे च पार्वति,
हरस्य श्रीशंभोर्हुकृतमेवाग्निस्तस्य ज्वालाभिरवलीढं ग्रस्तं वपुर्यस्य स तादृशस्य कुसुमा-
युधस्य कामस्य संजीवनार्थमाप्यायकमौषधं संजीवनौषधम् । आरोपः । तत्रापि त्रिभुवनस्य
सकलस्याभरणभूतम् । सुधारससमयेऽस्मिंस्तारुण्ये त्वया किमर्थमायास्यते खेयते ॥
Digitized by Google