This page has been fully proofread once and needs a second look.

हारोऽपि भार इव यत्र कुचद्वयं त
त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् ।
एतत्कथं मृदुमृणाललताभिजातं
श्ञ्चाग्नितापविपदः पदमङ्गमासीत् ॥ २१ ॥
 
यत्र यस्मिंस्तव कुचद्वन्द्वे हारोऽपि मुक्ताहारोऽपि भार इव क्लेशावहः । द्वे पलसहस्रे
भारः । 'तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः' इत्यमरः । तत्ते कुचद्वयं कुलिश-
वद्वज्रवत्कर्कशं कठोरं यद्वल्कलं भूर्जत्वक् तदेवोल्का विद्युद्भेदस्तां कथं सेहे । हे
तन्वङ्गि, मृद्वी या मृणालता तद्वदभिजातं सुकुमारं तवाङ्गं पञ्चाग्निधारणं नाम तपो-
विशेषः । तत्र दक्षिणाग्निगार्हपत्याहवनीयास्त्रयः प्रणीत (संस्कृतोऽनल) श्चतुर्थः पञ्चमस्तु
तपनोऽग्निरिति पश्चाग्नयः । तापः संतापस्तेन या विपदतिक्लेशः स एव वा विपत्तस्याः
पदं स्थानं कथमासीत् ॥
 
इत्यादिभिर्दशनचन्द्रिकयानुविद्धै
रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः ।
आश्वासयन्निव निवर्तिततीव्रखेदं[^१]
गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ २२ ॥
 
हे सखि जये, दशनानां चन्द्रिका ज्योत्स्ना तयानुविद्धैर्व्याप्तैः । अन्तस्तिमिरमज्ञा-
नरूपं तस्य प्रसरं बहिस्तिमिरं च ध्वान्तं हरद्भिः । तथा गर्भीकृतं स्मितमीषद्धसितं
तदेव सुधा तया मधुरै रम्यैर्वचोभिर्निवर्तितो दूरीकृतस्तीव्रो महांस्तपश्चरणोत्थः खेदो
यत्र तत् । क्रियाविशेषणमेतत् । आश्वासयन्निव । मामित्यर्थात् ॥
 
यावत्रपापरवशं क्षितिमीक्षमाणं
मुक्ताफलोपमसमुद्गतघर्मलेशम् ।
किंचित्करेण मुखमुन्नमयन्नियेष
पीयूषवर्षमिव वर्षितुमेष भूयः ॥ २३ ॥
 
त्रपापरवशं लज्जाधीनम् । अत एव क्षितिमीक्षमाणम् । लज्जयावनतमित्यर्थः ।
तथा मुक्ताफलोपमाः समुद्गता घर्मलेशाः स्वेदकणाः सात्त्विका यस्य तत्तादृशं च मुखं
मदीयं करेण पाणिना किंचिदुन्नमयन्नुत्क्षिपन्नेष प्रियतमः शंभुर्भूयो वचोभिः पीयूषवर्षं
सुधावृष्टिमिव वर्षितुं यावदियेष ॥
 
तावत्प्रबोधितवता कृकवाकुनादै-
र्दुर्वेधसा सखि तदाचरितं शठेन ।
 
[^१]. 'खेदां' ख.