This page has been fully proofread once and needs a second look.

२० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
हारोऽपि भार इव यत्र कुचद्वयं त
 

त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् ।

एतत्कथं मृदुमृणाललताभिजातं

पश्चाग्नितापविपदः पदमङ्गमासीत् ॥ २१ ॥
 

 
यत्र यस्मिंस्तव कुचद्वन्द्वे हारोऽपि मुक्ताहारोऽपि भार इव क्लेशावहः । द्वे पलसहस्रे

भारः । 'तुला स्त्रियां पलशतं भारः स्याद्विविंशतिस्तुलाः' इत्यमरः । तत्ते कुचद्वयं कुलिश-

वद्वज्रवत्कर्कशं कठोरं यद्वल्कलं भूर्जत्वक् तदेवोल्का विद्युद्भेदस्तां कथं सेहे । हे
तन्वति

तन्वङ्गि
, मृद्वी या मृणालता तद्वदमिभिजातं सुकुमारं तवाङ्गं पञ्चाग्भिनिधारणं नाम तपो-

विशेषः । तत्र दक्षिणाभिग्निगार्हपत्याहवनीयास्त्रयः प्रणीत (संस्कृतोऽनल) श्चतुर्थः पञ्चमस्तु

तपनोऽग्निरिति पश्चान्ग्नयः । तापः संतापस्तेन या विपदतिक्लेशः स एव वा विपत्तस्याः

पदं स्थानं कथमासीत् ॥
 

 
इत्यादिभिर्दशनचन्द्रिकयानुविद्धै

रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः ।
 

 

आश्वासयन्निव निवर्तिततीव्रखेदं
 
[^१]
गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ २२ ॥
 

 
हे सखि जये, दशनानां चन्द्रिका ज्योत्स्ना तयानुविद्धैर्व्याप्तैः । अन्तस्तिमिरमज्ञा-

नरूपं तस्य प्रसरं बहिस्तिमिरं च ध्वान्तं हरद्भिः । तथा गर्भीकृतं स्मितमीषद्धसितं

तदेव सुधा तया. मधुरै रम्यैर्वचोभिर्निवर्तितो दूरीकृतस्तीव्रो महांस्तपश्चरणोत्थः खेदो

यत्र तत् । क्रियाविशेषणमेतत् । आश्वासयन्निव । मामित्यर्थात् ॥

 
यावत्रपापरवशं क्षितिमीक्षमाणं

मुक्ताफलोपमसमुद्गतघर्मलेशम् ।

किंचित्करेण मुखमुन्नमयन्नियेष

पीयूषवर्षमिव वर्षितुमेष भूयः ॥ २३ ॥
 

 
त्रपापरवशं लज्जाधीनम् । अत एव क्षितिमीक्षमाणम् । लज्जयावनतमित्यर्थः ।

तथा मुक्ताफलोपमाः समुद्गता घर्मलेशाः स्वेदकणाः सात्त्विका यस्य तत्तादृशं च मुखं

मदीयं करेण पाणिना किंचिदुन्नमयन्नुत्क्षिपन्नेष प्रियतमः शंभुर्भूयो वचोभिः पीयूषवर्षे
षं
सुधावृष्टिमिव वर्षितुं यावदियैयेष ॥
 
ताव

 
तावत्
प्रबोधितवता कृकवाकुनादै-

र्
दुर्वेधसा सखि तदाचरितं शठेन ।
 
२८७
 

 
[^
]. 'खेदां' ख.
 
Digitized by Google