This page has been fully proofread once and needs a second look.

२८६
 
काव्यमाला ।
 
न्त्रत्वात्समेत्यागत्य तस्मिन्नेव क्षणे मम नयनवर्त्मनि नेत्रमार्गे पदं चक्रे स्थितिमकरोत् ।

क इव कस्याः। सरोरुहिण्याः पद्मिन्याः सविता सूर्य इव । यथा सूर्यः प्रभाते पद्मिन्यास्त-

मसान्धकारेण मुकुलीकृतायाः संकुचिताया नेत्रवर्त्मनि पदं करोति तथेत्यर्थः ॥
 

अतः परं स्वप्नदृष्टपरमेश्वरसान्त्ववाक्यमपि पार्वती सख्यै जयायै प्रोवाच । यथा -

 
अस्मत्कृते सितमयूखमुखि त्वयैत-

त्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् ।

उद्यानचडूङ्क्रमणकेलिषु खिद्यते या
 

सा ते कथं कथय कष्टसहाङ्गयष्टिः ॥ १८ ॥
 

 
स्वप्ने दृष्टः शंभुः पार्वतीमा श्वासयति — हे सितमयूखमुखि, मुनिभिर्वाचंयमैरपि व्रति-

भिर्यदतिशयेन दुष्करं कर्म तदेतत्त्वया कोमलाङ्ग्या कि प्रस्तुतं किमारब्धम् । हे कम-

लाङ्गि, त्वं कथय । या तवाङ्गष्टिरुद्याने कुसुमोद्याने यच्चङ्क्रमणं लीलया भ्रमणं तत्र ये

केलयस्तेषु विखिद्यते सा ते तवाङ्ग्यष्टिः कथं कष्टसहा भवति ॥

पुनरप्येतदेव समर्थयति-

 
मूर्तिः क्व बालकदलीदलकोमलेयं
 

तीव्रं तपः क्व मनसोऽपि न गोचरं यत् ।

क्वेषद्विकासि कुसुमं सुमनोलतायाः

क्वोन्मत्तकुञ्जर कठोरकरोपमर्दः ॥ १९ ॥
 

 
हे शशिमुखि, बालं नवं यत्कदलीदलं तद्वत्कोमला सुकुमारेयं तव मूर्तिः क्व भवति ।

तीव्रं कठिनं मुनिभिरष्यतिदुष्करं मनसोऽपि यन्त्र गोचरं तत्तपः क्व भवति । दृष्टं चैत-

द्यथा— सुमनोलताया मालतीलताया ईषद्विकासि मनाक्प्रफुल्लं कुसुमं क्व भवति ।

'सुमना मालती जातिः' इत्यमरः । उन्मत्तो मदेन यः कुञ्जरो हस्ती तस्य करेणोपम-

र्
दस्तस्य जातीकुसुमस्य क्व भवति ॥
 

 
एतेन कर्कशकुशग्रहणं करेण
 

सोढं कथं प्रथमपल्लवकोमलेन ।

पादौ कथं कमलगर्भनिभौ शिलाश्रि-

श्रेणीषु तीर्थगमनक्ममन्वभूताम् ॥ २० ॥
 

 
हे सुमुखि, प्रथमो नूतनो यः पल्लवस्तद्वत्कोमलेन तव करेण पाणिना कर्कशानाम-

तिकठोराणां कुशानां दर्भाणां ग्रहणं कथं सोढम् । तथा हे कोमलाङ्गि, कमलगर्भ-

निभौ पद्मकोषनिभौ तव चरणौ शिलानां दृषदामश्रयो धारास्तासां श्रेणीषु पङ्क्तिषु

तीर्थगमनेन क्लेशमन्वभूताम् ॥
 
Digitized by Google