This page has not been fully proofread.

२८६
 
काव्यमाला ।
 
न्त्रत्वात्समेत्यागत्य तस्मिन्नेव क्षणे मम नयनवर्त्मनि नेत्रमार्गे पदं चक्रे स्थितिमकरोत् ।
क इव कस्याः। सरोरुहिण्याः पद्मिन्याः सविता सूर्य इव । यथा सूर्यः प्रभाते पद्मिन्यास्त-
मसान्धकारेण मुकुलीकृतायाः संकुचिताया नेत्रवर्त्मनि पदं करोति तथेत्यर्थः ॥
 
अतः परं स्वप्नदृष्टपरमेश्वरसान्त्ववाक्यमपि पार्वती सख्य जयायै प्रोवाच । यथा -
अस्मत्कृते सितमयूखमुखि त्वयैत-
त्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् ।
उद्यानचडूमणकेलिषु खिद्यते या
 
सा ते कथं कथय कष्टसहाङ्गयष्टिः ॥ १८ ॥
 
स्वप्ने दृष्टः शंभुः पार्वतीमा श्वासयति — हे सितमयूखमुखि, मुनिभिर्वाचंयमैरपि व्रति-
भिर्यदतिशयेन दुष्करं कर्म तदेतत्त्वया कोमलाङ्गया कि प्रस्तुतं किमारब्धम् । हे कम-
लाङ्गि, त्वं कथय । या तवायष्टिरुयाने कुसुमोद्याने यच्चङ्कमणं लीलया भ्रमणं तत्र ये
केलयस्तेषु विद्यते सा ते तवायष्टिः कथं कष्टसहा भवति ॥
पुनरप्येतदेव समर्थयति-
मूर्तिः क्व बालकदलीदलकोमलेयं
 
तीव्रं तपः क्व मनसोऽपि न गोचरं यत् ।
क्वेषद्विकासि कुसुमं सुमनोलतायाः
क्वोन्मत्तकुञ्जर कठोरकरोपमर्दः ॥ १९ ॥
 
हे शशिमुखि, बालं नवं यत्कदलीदलं तद्वत्कोमला सुकुमारेयं तव मूर्तिः क्व भवति ।
तीव्रं कठिनं मुनिभिरष्यतिदुष्करं मनसोऽपि यन्त्र गोचरं तत्तपः क्व भवति । दृष्टं चैत-
द्यथा— सुमनोलताया मालतीलताया ईषद्विकासि मनाक्प्रफुलं कुसुमं क्व भवति ।
'सुमना मालती जातिः' इत्यमरः । उन्मत्तो मदेन यः कुञ्जरो हस्ती तस्य करेणोपम-
दस्तस्य जातीकुसुमस्य क्व भवति ॥
 
एतेन कर्कशकुशग्रहणं करेण
 
सोढं कथं प्रथमपल्लवकोमलेन ।
पादौ कथं कमलगर्भनिभौ शिलाश्रि-
श्रेणीषु तीर्थगमनक्कममन्वभूताम् ॥ २० ॥
 
हे सुमुखि, प्रथमो नूतनो यः पल्लवस्तद्वत्कोमलेन तव करेण पाणिना कर्कशानाम-
तिकठोराणां कुशानां दर्भाणां ग्रहणं कथं सोढम् । तथा हे कोमलाङ्गि, कमलगर्भ-
निभौ पद्मकोषनिभौ तव चरणौ शिलानां दृषदामश्रयो धारास्तासां श्रेणीषु पक्तिषु
तीर्थगमनेन क्लेशमन्वभूताम् ॥
 
Digitized by Google