This page has been fully proofread once and needs a second look.

२० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२८५
 
तादृग्यत्तव हसितं युगपत्तुल्यकालमेव कठोरहृदयस्य कठिनाशयस्य श्रीशिवशासनपरा-

ङ्मु
खस्य भयं दातुम्, भीरोः कातरस्याशरणस्याभयं दातुं क्षमं समर्थं भवति ॥

 
यत्कालकूटकवलीकरणप्ररूढ-

नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।

नीरन्ध्रनीरभरमेदुरमेघखण्ड-

लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५ ॥
 

 
तत्तव इसितं पुनः किंभूतमित्याह–कालकूटस्य विषभेदस्य कवलीकरणेन निगलनेन

प्ररूढो नीलिमा यस्मिंस्तादृशे तव कण्ठतटे निलीनं लग्नं विमलं स्वतो धवलं नीरन्ध्रो

घनः नीरभरेण मेदुरो यो मेघखण्डस्तत्र लग्नं यदिन्दुमण्डलं तस्य विडम्बनं स्पर्धा
यत्तव इ
धां
यत्तव ह
सितमातनोति विस्तारयति ॥
 

 
इतः परं भगवद्धसितमहाकुलकमध्ये भगवत्याः पार्वत्याः स्वप्नादेशवर्णनं श्लोक नवकेन

गर्भकुलकमाइ -
 

 
ध्यायन्त्यनन्यहृदया हृदयाधिनाथ-

मद्य क्षपामगमयं सखि कल्पकल्पाम् ।

प्राणेशसंगमनिमित्तमथ प्रभाते
 

निद्रा सखीव मम संमुखमाजगाम ॥ १६ ॥
 

 
'इत्यादि तीव्रविरह-' इत्यन्तिम श्लोके तत्स्वप्वृत्तं शृण्वतः प्रमोदभरनिर्भरमानसस्य

यद्धसितं तव जातमिति संबन्धः । गिरिजा पार्वती श्रीशंभुवियोगेनोन्मदना विरहातुरा

स्वसखीं जयां प्रति स्वप्नोदितवृत्तान्तमकथयत् । हे सखि जये, नान्यस्मिन्हृदयं मनो

यस्याः सा तादृश्यहं हृदयाधिनाथं प्राणप्रियं भगवन्तं शंभुं ध्यायन्ती अद्यास्मिन्वासरे

कल्पकल्पां चतुर्दशभिर्मन्वन्तरैरेकः कल्पः । ईषदसमाप्तः कल्पो यस्यास्तादृशीं कल्प-

कल्पां क्षपां रात्रिमेकामगमयम् । अथानन्तरमस्मत्प्राणेशस्य प्राणप्रियस्य श्रीशिवस्य यः

संगमस्तस्य निमित्तं हेतुभूता । आरोप: । सखी सहचरीव प्रभाते निद्रा मम संमुखमा

जगाम । स्वप्ने कदाचित्प्राणेशसंगमोऽपि भवति ॥
 

 
तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः

शंसन्दृशा मधुरयैव मनःप्रसादम् ।
 

चक्रे पदं मम तमोमुकुलीकृतायाः
 

स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७ ॥
 

 
हे सखि जये, मधुरया सौम्ययैव दृशा दृष्ट्या मनःप्रसादं चेतोनैर्मल्यं शंसन्प्रतिपादयं-

स्तमसा तमोगुणेन मूर्छापर्यायेण मुकुलितायाः संकुचिताया मम स्वैरं स्वेच्छया स्वत
 
Digitized by Google