This page has not been fully proofread.

२० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
२८५
 
तादृग्यत्तव हसितं युगपत्तुल्यकालमेव कठोरहृदयस्य कठिनाशयस्य श्रीशिवशासनपरा-
खस्य भयं दातुम्, भीरोः कातरस्याशरणस्याभयं दातुं क्षमं समर्थ भवति ॥
यत्कालकूटकवलीकरणप्ररूढ-
नीलिम्नि कण्ठपुलिने विमलं निलीनम् ।
नीरन्ध्रनीरभरमेदुरमेघखण्ड-
लग्नेन्दुमण्डलविडम्बनमातनोति ॥ १५ ॥
 
तत्तव इसितं पुनः किंभूतमित्याह–कालकूटस्य विषभेदस्य कवलीकरणेन निगलनेन
प्ररूढो नीलिमा यस्मिंस्तादृशे तव कण्ठतटे निलीनं लग्नं विमलं स्वतो धवलं नीरन्ध्रो
घनः नीरभरेण मेदुरो यो मेघखण्डस्तत्र लग्नं यदिन्दुमण्डलं तस्य विडम्बनं स्पर्धा
यत्तव इसितमातनोति विस्तारयति ॥
 
इतः परं भगवद्धसितमहाकुलकमध्ये भगवत्याः पार्वत्याः स्वप्नादेशवर्णनं श्लोक नवकेन
गर्भकुलकमाइ -
 
ध्यायन्त्यनन्यहृदया हृदयाधिनाथ-
मद्य क्षपामगमयं सखि कल्पकल्पाम् ।
प्राणेशसंगमनिमित्तमथ प्रभाते
 
निद्रा सखीव मम संमुखमाजगाम ॥ १६ ॥
 
'इत्यादि तीव्रविरह-' इत्यन्तिम श्लोके तत्स्वप्रवृत्तं शृण्वतः प्रमोदभरनिर्भरमानसस्य
यद्धसितं तव जातमिति संबन्धः । गिरिजा पार्वती श्रीशंभुवियोगेनोन्मदना विरहातुरा
स्वसखीं जयां प्रति स्वप्नोदितवृत्तान्तमकथयत् । हे सखि जये, नान्यस्मिन्हृदयं मनो
यस्याः सा तादृश्यहं हृदयाधिनाथं प्राणप्रियं भगवन्तं शंभुं ध्यायन्ती अद्यास्मिन्वासरे
कल्पकल्पां चतुर्दशभिर्मन्वन्तरैरेकः कल्पः । ईषदसमाप्तः कल्पो यस्यास्तादृशीं कल्प-
कल्पां क्षपां रात्रिमेकामगमयम् । अथानन्तरमस्मत्प्राणेशस्य प्राणप्रियस्य श्रीशिवस्य यः
संगमस्तस्य निमित्तं हेतुभूता । आरोप: । सखी सहचरीव प्रभाते निद्रा मम संमुखमा
जगाम । स्वप्ने कदाचित्प्राणेशसंगमोऽपि भवति ॥
 
तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः
शंसन्दृशा मधुरयैव मनःप्रसादम् ।
 
चक्रे पदं मम तमोमुकुलीकृतायाः
 
स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ १७ ॥
 
हे सखि जये, मधुरया सौम्ययैव दृशा दृष्टया मनःप्रसादं चेतोनैर्मल्यं शंसन्प्रतिपादयं-
स्तमसा तमोगुणेन मूर्छापर्यायेण मुकुलितायाः संकुचिताया मम स्वैरं स्वेच्छया स्वत
 
Digitized by Google