This page has not been fully proofread.

२ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
११
 
र्माणं विधानं तदेव नर्म फ्रीडा तदेव शर्म कल्याणं तद्द्दातीति शर्मदं कर्म यस्य स
तस्मै । क्रीडयैव जगन्नगरनिर्मात्र इत्यर्थः ॥
 

 
नमस्तमस्वतीकान्तखण्डमण्डितमौलये
 

 
तापान्धकार
 
निर्वेदखेदविच्छेदवेदिने ॥ ४ ॥
 
नमस्तमस्वतीति । तमस्वतीकान्तखण्डश्चन्द्रखण्डस्तेन मण्डितो मौलियस्य । तापः
आध्यात्मिकाधिदैविकाधिभौतिकरूपस्त्रिविधः । अन्धकारो मोहरूपोऽविद्यामयः । अ-
। र्थात्संसारिणां भक्तजनानां च । तेन यो निर्वेदस्तेन यः खेदस्तस्य यो विच्छेदस्तं वे-
तीति तस्मै श्रीशिवाय नमोऽस्तु ॥
 
नमः समस्तसंकल्पकल्पनाकल्पशाखिने ।
 
विकासिकलिकाकान्तकलापाय स्वयंभुवे ॥ ९ ॥
 
नमः समस्तेति । समस्ता ये संकल्पा भक्तजनस्य ऐहिका आमुष्मिकाश्च । तेषां या
कल्पना निष्पत्तिस्तस्यां कल्पशाखी देवतरुर्यथेप्सिताभीष्टदायी तस्मै । विकासिनी या
कलिका चन्द्रकला तया कान्तः कलापो जटाजूटो यस्य तस्मै । एवंविधाय स्वयंभुवे
स्थाणवे नमोऽस्तु । देवतरुरपि समीहितपूरणं विधत्ते । कलिकाभिर्दिन्त्यकुसुमकुम्पलैः
शोभितशाखाकलापश्च भवतीत्यर्थः । अत्रापि वृत्त्यनुप्रासोऽलंकारः ॥
नमस्तमः पराभूत भूतवर्गानुकम्पिने ।
 
श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥ ६ ॥
 
नमस्तम इति । तमसा अज्ञानेनाविद्यारूपेण पराभूतो यो भूतवर्गो जनसंघस्तमनु-
कम्पते इत्यनुकम्पी तस्मै । अज्ञानपराभूतप्राणियूथदयालवे इत्यर्थः । तथा श्वेतभानुः
सोमः, बृहद्भानुरभिः, भानुः सूर्यः, तैर्भासितानि चक्षूंषि त्रीणि यस्य तस्मै नमोऽस्तु ॥
नमः शमन हुंकारकातरा तुरहर्षिणे ।
 
भवाय भवदावाग्निविविनामृतवर्षिणे ॥ ७ ॥
 
नमः शमेति । शमनस्य यमस्य यो हुंकारस्तेन कातरा भीता ये आठुरा आर्ता-
स्तान्हर्षयतीति तस्मै । तथा भवः संसार एव दावाग्निस्तेन ये विविना मीता व्या-
कुला वा तेषाममृतं वर्षतीति तस्मै नमोऽस्तु ॥
 
नमः समदकंदर्पदर्पज्वरभरच्छिदे ।
 
दुर्वारभवरुग्भङ्गमिषजे वृषलक्ष्मणे ॥ ८ ॥
 
नमः समदेति । सह मदेन वर्तते योऽसौ कंदर्पः कामस्तस्य यो दर्पः स एव ज्वरस्तस्य
यो भरस्तं छिनत्तीति भरच्छित् तस्मै । तथा दुःखेन वार्यते दुर्वारा दुनिवारा चासौ भवरुक्
संसाररूपव्याधिस्तस्य भङ्गो नाशस्तस्य भिषक् अगदंकारस्तस्मै । वृषलक्ष्मणे श्रीशिवाय
नमोऽस्तु ॥ अत्र वृत्तैरुत्तरार्धाभिप्रायच्छायानुसारेण ममापि वृत्तानि चत्वारि - 'तैस्तैरु -
 
Digitized by Google