This page has been fully proofread once and needs a second look.

२८४
 
काव्यमाला ।
 
बालस्य नागवंदनस्य मनस्यभीष्टां
 

दृष्दैटैव नाट्यघटनां तव संबभूव ॥ ११ ॥
 

 
कर्णतालयोर्वलनं तेन योऽनिलस्तेन धूताः कुम्भसिन्दूररेणुकणाः कपोलचीनपिष्टर

जोलवास्तैः कूणिते निमीलिते पूरिते वा लोचने नेत्रे येन स तादृशस्य । 'कूण संको

चने' 'कूण पूरणे' वा धातुः । एवंभूतस्य बालस्य नागवदनस्य गणपतेर्मनस्यभीष्टां ना

ट्यस्य घटनां रचनां दृष्ट्वा तव यद्धसितं संबभूव संभूतम् । 'रचनां' इत्यपि पाठः ॥

 
शैलादिवादितमृदङ्गलयानुयात

नृत्तप्रवृत्तगुहवाहविलोकनेन ।

स्वामिन्महाप्रलयभैरवरूपिणो य-

दाविर्बभूव तव ताण्डवडम्बरेषु ॥ १२ ॥
 

 
हे स्वामिन्, शिलादस्य मुनेरपत्यं शैला दिर्नन्दी प्रथमविशेषस्तेन वादितो यो मृदङ्ग -

स्तस्य लयोऽन्यवाद्यैः सह समत्वं तमनुगतं यन्नृत्तं नाट्यं तत्र प्रवृत्तो यो गुहवाहः का-

तिकेयवाहनं मयूरस्तस्य विलोकनेन हेतुना महाप्रलये भैरवरूपिणस्तव नवताण्डवडम्ब -

रेषु नूतननाट्यविस्तारेषु यद्धसितमाविर्बभूव । 'लयः साम्यं' इत्यमरः ॥

तद्धसितं किमित्याह-

 
व्योमप्रचण्डभुजदण्डविघट्यमान-

तारावलीविरहबन्धुरितान्धकारम् ।

स्वामिन्युगान्तसमयाभिनयेषु येन
 

संभाव्यते पुनरपि प्रचुरप्रकाशम् ॥ १३ ॥
 

 
हे स्वामिन्, युगान्तसमयाभिनयेषु महाप्रलयकालनाव्ट्येषु तव प्रचण्डा ये भुजा अ

ष्टादश त एव दण्डास्तैर्विघट्यमाना ध्वंस्यमाना यास्तारावल्यस्तासां विरहेण बन्धुरितः

पूरितोऽन्धकारो यत्र तत् । ईदृशमपि व्योमाकाशं येन तव इसितेन पुनरपि प्रचुरप्र-

काशं संभाव्यते ॥
 

 
दिक्चक्रबालमुखरीकरणप्रगल्भ-

प्रावृट्पयोधरगभीररवानुकारि ।

स्वामिन्कठोरहृदयस्य भयं विधातुं
 

भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ १४ ॥
 
;
 

 
तत्तव हसितं किंभूतम् । हे स्वामिन् दिक्चक्रवालस्य दिङ्मण्डलस्य मुखरीकरणे
प्रतिनादेन मुखरीकृतीतौ प्रगल्भो यः प्रावृटुट्पयोधरो वर्षापर्जन्यस्तस्य गभीररवमनुकरोतीति
 
Digitized by Google