This page has not been fully proofread.

२८४
 
काव्यमाला ।
 
बालस्य नागवंदनस्य मनस्यभीष्टां
 
दृष्दैव नाट्यघटनां तव संबभूव ॥ ११ ॥
 
कर्णतालयोवलनं तेन योऽनिलस्तेन धूताः कुम्भसिन्दूररेणुकणाः कपोलचीनपिष्टर
जोलवास्तैः कूणिते निमीलिते पूरिते वा लोचने नेत्रे येन स तादृशस्य । 'कूण संको
चने' 'कूण पूरणे' वा धातुः । एवंभूतस्य बालस्य नागवदनस्य गणपतेर्मनस्यभीष्टां ना
ट्यस्य घटनां रचनां दृष्ट्वा तव यद्धसितं संबभूव संभूतम् । 'रचनां' इत्यपि पाठः ॥
शैलादिवादितमृदङ्गलयानुयात
नृत्तप्रवृत्तगुहवाहविलोकनेन ।
स्वामिन्महाप्रलयभैरवरूपिणो य-
दाविर्बभूव तव ताण्डवडम्बरेषु ॥ १२ ॥
 
हे स्वामिन्, शिलादस्य मुनेरपत्यं शैला दिर्नन्दी प्रथमविशेषस्तेन वादितो यो मृदङ्ग -
स्तस्य लयोऽन्यवाद्यैः सह समत्वं तमनुगतं यन्नृत्तं नाट्यं तत्र प्रवृत्तो यो गुहवाहः का-
तिकेयवाहनं मयूरस्तस्य विलोकनेन हेतुना महाप्रलये भैरवरूपिणस्तव नवताण्डवडम्ब -
रेषु नूतननाट्यविस्तारेषु यद्धसितमाविर्बभूव । 'लयः साम्यं' इत्यमरः ॥
तद्धसितं किमित्याह-
व्योमप्रचण्डभुजदण्डविघट्यमान-
तारावलीविरहबन्धुरितान्धकारम् ।
स्वामिन्युगान्तसमयाभिनयेषु येन
 
संभाव्यते पुनरपि प्रचुरप्रकाशम् ॥ १३ ॥
 
हे स्वामिन्, युगान्तसमयाभिनयेषु महाप्रलयकालनाव्येषु तव प्रचण्डा ये भुजा अ
ष्टादश त एव दण्डास्तैर्विघट्यमाना ध्वंस्यमाना यास्तारावल्यस्तासां विरहेण बन्धुरितः
पूरितोऽन्धकारो यत्र तत् । ईदृशमपि व्योमाकाशं येन तव इसितेन पुनरपि प्रचुरप्र-
काशं संभाव्यते ॥
 
दिक्चक्रबालमुखरीकरणप्रगल्भ-
प्रावृपयोधरगभीररवानुकारि ।
स्वामिन्कठोरहृदयस्य भयं विधातुं
 
भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ १४ ॥
 
;
 
तत्तव हसितं किंभूतम् । हे स्वामिन् दिक्चक्रवालस्य दियण्डलस्य मुखरीकरणे
प्रतिनादेन मुखरीकृती प्रगल्भो यः प्रावृटुयोधरो वर्षापर्जन्यस्तस्य गभीररवमनुकरोतीति
 
Digitized by Google