This page has been fully proofread once and needs a second look.

२० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
विष्णुं विलोक्य निजलोचनमुत्खनन्त-

मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ ८ ॥
 
-
 

 
हे नाथ, विष्णुना तव पूजार्थमम्बुजसहस्रं कमलसहस्रं यदुपाहितं पूजार्थमानीतं

तन्मध्यादेकं कमलं कैतवेन च्छद्मना अनन्यासक्तिभक्तिपरीक्षणरूपेण हृतवतो गो-

पयतस्तव निजं लोचनं तत्कमलपूरणायोत्खनन्तमुत्पाटयन्तं विष्णुं निजभक्तं विलो-

क्यान्तः प्रसन्नं मनो यस्य स तादृशस्य तवामन्दं बहु यद्धसितमासीत् । एतद्वृत्तान्त

वर्णनेन महिम्नः स्तोत्रेऽपि श्रीशिवस्तुतिः - 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोर्य-

देकोने तस्मिन्निजमुदहरन्नेत्रकमलम्' इत्यादिना ॥

 
दृष्ट्वा वधूजनमनुत्तमरूपसंप-

त्संदर्शनोद्भवमनोभवभग्नवृत्तम् ।

आषाढपाणिषु रुषा मुनिषु प्रहर्तु-

मभ्युद्यतेषु तव यद्भृशमुद्भूव ॥ ९ ॥

 
अनुत्तमानन्यसदृशी या रूपसंपत्तस्याः संदर्शने उद्भवो यस्य तथाविधो मनोभवः काम-

स्तेन भग्नं वृत्तं शीलं यस्य स तादृशस्तं वधूजनं निजदारसमूहं दृष्ट्वा आषाढपाणिषु

पलाशदण्डपाणिषु रुषा पूर्वोक्तवृत्तान्तोदितया त्वां प्रहर्तुमुद्यतेषु मुनिषु मृभृशमत्यर्थेथं यद्ध-

सितं तवोद्भूवोद्भुभूतम् । 'पालाशो दण्ड आषाढ : ' इत्यमरः । आषाढासु जात आ

षाढः । 'विशाखाषाढादण्मन्थदण्डयोः' इति स्वामी । एतद्द्वृत्ताख्यानमपि 'अपूर्वेवं ला-

वण्यं विवसनतनोस्ते विमृशता' इत्यत्र ॥
 

अधुना देवासुराणामपि
दाहभयकारिकालकूटाख्यविषविशेषनिगरणापादानं श्रीशंभो-
अधुना देवासुराणामपि

र्
वर्णयति प्रसङ्गेन -
 
२८३
 

 
अभ्यर्णवर्तिकरगोचरकालकूट-

कूटप्रभानिचयमेचकितेऽधरौष्ठे ।

यत्पूर्वपर्वतशिखाश्रितशीतरश्मि -
 

रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ १० ॥
 

 
अभ्यर्णवर्ती करगोचरः करस्थो यः कालकुकूटो विषविशेषस्तस्य कूट: समूहस्तस्य

प्रभानिचयेन मेचकितेऽसितीकृतेऽधरौष्ठे यद्धसितं पुराविरासीत्प्रकटीबभूव । किंभूतम् ।

पूर्वपर्वतशिखामाश्रितो यः शीतरश्मिश्चन्द्रस्तस्य रश्मिच्छटानां छविविं कान्तितिं विडम्बयति
 

तादृशम् ॥
 

 
यत्कर्णतालवलनानिलधूत कुम्भ-

सिन्दूररेणुकणकूणितलोचनस्य
 

 
Digitized by Google