This page has not been fully proofread.

२० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
विष्णुं विलोक्य निजलोचनमुत्खनन्त-
मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ ८ ॥
 
-
 
हे नाथ, विष्णुना तव पूजार्थमम्बुजसहस्रं कमलसहस्रं यदुपाहितं पूजार्थमानीतं
तन्मध्यादेकं कमलं कैतवेन च्छद्मना अनन्यासक्तिभक्तिपरीक्षणरूपेण हृतवतो गो-
पयतस्तव निजं लोचनं तत्कमलपूरणायोत्खनन्तमुत्पाटयन्तं विष्णुं निजभक्तं विलो-
क्यान्तः प्रसन्नं मनो यस्य स तादृशस्य तवामन्दं बहु यद्धसितमासीत् । एतद्वृत्तान्त
वर्णनेन महिम्नः स्तोत्रेऽपि श्रीशिवस्तुतिः - 'हरिस्ते साहस्रं कमलबलिमाधाय पदयोर्य-
देकोने तस्मिन्निजमुदहरन्नेत्रकमलम्' इत्यादिना ॥
दृष्ट्वा वधूजनमनुत्तमरूपसंप-
त्संदर्शनोद्भवमनोभवभग्नवृत्तम् ।
आषाढपाणिषु रुषा मुनिषु प्रहर्तु-
मभ्युद्यतेषु तव यद्भृशमुद्धभूव ॥ ९ ॥
अनुत्तमानन्यसदृशी या रूपसंपत्तस्याः संदर्शने उद्भवो यस्य तथाविधो मनोभवः काम-
स्तेन भग्नं वृत्तं शीलं यस्य स तादृशस्तं वधूजनं निजदारसमूहं दृष्ट्वा आषाढपाणिषु
पलाशदण्डपाणिषु रुषा पूर्वोक्तवृत्तान्तोदितया त्वां प्रहर्तुमुद्यतेषु मुनिषु मृशमत्यर्थे यद्ध-
सितं तवोद्वभूवोद्भुतम् । 'पालाशो दण्ड आषाढ : ' इत्यमरः । आषाढासु जात आ
षाढः । 'विशाखाषाढादण्मन्थदण्डयोः' इति स्वामी । एतद्द्वृत्ताख्यानमपि 'अपूर्वेला-
वण्यं विवसनतनोस्ते विमृशता' इत्यत्र ॥
 
दाहभयकारिकालकूटाख्यविषविशेषनिगरणापादानं श्रीशंभो-
अधुना देवासुराणामपि
वर्णयति प्रसङ्गेन -
 
२८३
 
अभ्यर्णवर्तिकरगोचरकालकूट-
कूटप्रभानिचयमेचकितेऽधरौष्ठे ।
यत्पूर्वपर्वतशिखाश्रितशीतरश्मि -
 
रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ १० ॥
 
अभ्यर्णवर्ती करगोचरः करस्थो यः कालकुटो विषविशेषस्तस्य कूट: समूहस्तस्य
प्रभानिचयेन मेचकितेऽसितीकृतेऽधरौष्ठे यद्धसितं पुराविरासीत्प्रकटीबभूव । किंभूतम् ।
पूर्वपर्वतशिखामाश्रितो यः शीतरश्मिश्चन्द्रस्तस्य रश्मिच्छटानां छवि कान्ति विडम्बयति
 
तादृशम् ॥
 
यत्कर्णतालवलनानिलधूत कुम्भ-
सिन्दूररेणुकणकूणितलोचनस्य
 

 
Digitized by Google