This page has been fully proofread once and needs a second look.

२८२
 
काव्यमाला ।
 
'अस गतिदीप्त्यादानेषु' । सोत्प्रास अधिको महान्हास आच्छुरितकम्। 'छुर भेदने' ।

भावे क्तः । स्वार्थे कः । आ समन्तादविच्छिन्नमित्यर्थः । अत एवानल्पो यो दर्पोद्गमोऽहं-

कारोद्गमस्तस्य प्रशमनेन भाविदाहरूपेण विक्लवः कृशो विक्रमो यस्य स तादृशस्य

शमनस्य कालस्योत्प्रासनाय तदसह्योत्पादनार्थं स्वस्याधिक्यगमनाय (?) येन हसितेन

मनसि समभावि अमर्षोत्पादकमधिकं हसितमुपहासः । तथा कालमतिकरालं वीक्ष्य

च कीनाशपाशेन कालपाशेन विह्वलस्य नरेश्वरस्य राज्ञः श्वेतनृपस्याश्वासनाय सान्त्वनाय

च येन हसितेन समं मनसि समभावि संभूतम् ॥
 

तद्धसितं किमित्याह-

 
भावत्कभक्तिभरसंभृतभूरिभूति -

संभारगूढगुरुगर्वगलद्विवेकम् ।

मोहान्धमन्धकमुपाहितसाहसिक्य-

हेवाकमाकलयतो भवतो यदासीत् ॥ ६ ॥
 
,

 
हे नाथ, भावत्कभक्त्यतिशयेन संभृता प्राप्ता या भूरिभूतिरनल्पसंपत्तस्याः संभारेण

रूढ उत्पन्नो यो गुरुर्महान्गर्वस्तेन गलन्पतन्विवेकस्तादृक्त्रैलोक्यभयोत्पादकविभूतिस-

मर्पकप्रभुपूजारूपो यस्य स तादृशम् । मोहेनाज्ञानेनान्धमन्धीकृतमन्धकमन्धकासुरम् ।

उपाहितो मनसि निश्चितः साहसिक्यहेवाकः प्रत्युत तादृग्विभूतिसमर्पकत्रिलोकनाथेनैव

समं युद्धसंरम्भसाहसिक्यहेवाको यस्य स तादृशमाकलयतो जानतो भवतः प्रभोर्यद्ध-

सितमासीत् ॥
 

तद्धसितं किमित्याह-

 
लङ्केशकम्पितकुबेरगिरिप्ररूढ-

संरम्भभीरुगिरिजापरिरम्भभाजः ।

यत्ते रुषामवसरेऽप्युदितानवद्य-

हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ ७ ॥
 

 
कुत्सितं बेरं देहोऽस्य । कुष्ठित्वात् । कुबेरो धनदः । लङ्केशेन स्वयमेवानुगृहीतेन क

म्पितो यः कुबेरगिरिः कैलासस्तेन हेतुना रूढः संरम्भो व्याकुलता यस्यास्तादृशी ।

अत एव भीरुस्रस्ता या गिरिजा पार्वती तस्या अन्यत्राख्यानोक्तरीत्या मानिन्याः

परिरम्भमाश्लेषं भजति यस्तादृक् तस्य ते तव रुषां रोषाणामवसरसमयेऽपि पूर्वोक्त-

रीत्या उदितो योऽनवद्यो हृद्यः प्रसादस्तेन शोभनं मुखं यस्य स तादृशस्य ते यद्विलास-

हसितं समुज्जगाम समुद्रतम् । उत्पन्नमित्यर्थः ॥
 

तद्धसितं किमित्याह -

 
पूजार्थमम्बुजसहस्रमुपाहितं य-

देकं ततो हृतवतस्तव कैतवेन ।
 
Digitized by Google