This page has not been fully proofread.

२८२
 
काव्यमाला ।
 
'अस गतिदीप्त्यादानेषु' । सोत्प्रास अधिको महान्हास आच्छुरितकम्। 'छुर भेदने' ।
भावे क्तः । स्वार्थे कः । आ समन्तादविच्छिन्नमित्यर्थः । अत एवानल्पो यो दर्पोद्गमोऽहं-
कारोद्गमस्तस्य प्रशमनेन भाविदाहरूपेण विक्लवः कृशो विक्रमो यस्य स तादृशस्य
शमनस्य कालस्योत्प्रासनाय तदसह्योत्पादनार्थ स्वस्याधिक्यगमनाय (?) येन हसितेन
मनसि समभावि अमर्षोत्पादकमधिकं हसितमुपहासः । तथा कालमतिकरालं वीक्ष्य
च कीनाशपाशेन कालपाशेन विह्वलस्य नरेश्वरस्य राज्ञः श्वेतनृपस्याश्वासनाय सान्त्वनाय
च येन हसितेन समं मनसि समभावि संभूतम् ॥
 
तद्धसितं किमित्याह-
भावत्कभक्तिभरसंभृतभूरिभूति -
संभारगूढगुरुगर्वगलद्विवेकम् ।
मोहान्धमन्धकमुपाहितसाहसिक्य-
हेवाकमाकलयतो भवतो यदासीत् ॥ ६ ॥
 
,हे नाथ, भावत्कभक्त्यतिशयेन संभृता प्राप्ता या भूरिभूतिरनल्पसंपत्तस्याः संभारेण
रूढ उत्पन्नो यो गुरुर्महान्गर्वस्तेन गलन्पतन्विवेकस्तादृक्त्रैलोक्यभयोत्पादकविभूतिस-
मर्पकप्रभुपूजारूपो यस्य स तादृशम् । मोहेनाज्ञानेनान्धमन्धीकृतमन्धकमन्धकासुरम् ।
उपाहितो मनसि निश्चितः साहसिक्यहेवाकः प्रत्युत ताहग्विभूतिसमर्पकत्रिलोकनाथेनैव
समं युद्धसंरम्भसाहसिक्यहेवाको यस्य स तादृशमाकलयतो जानतो भवतः प्रभोर्यद्ध-
सितमासीत् ॥
 
तद्धसितं किमित्याह-
लङ्केशकम्पितकुबेरगिरिप्ररूढ-
संरम्भभीरुगिरिजापरिरम्भभाजः ।
यत्ते रुषामवसरेऽप्युदितानवद्य-
हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ ७ ॥
 
कुत्सितं बेरं देहोऽस्य । कुष्ठित्वात् । कुबेरो धनदः । लङ्केशेन स्वयमेवानुगृहीतेन क
म्पितो यः कुबेरगिरिः कैलासस्तेन हेतुना रूढः संरम्भो व्याकुलता यस्यास्तादृशी ।
अत एव भीरुखस्ता या गिरिजा पार्वती तस्या अन्यत्राख्यानोक्तरीत्या मानिन्याः
परिरम्भमाश्लेषं भजति यस्तादृक् तस्य ते तव रुषां रोषाणामवसरसमयेऽपि पूर्वोक्त-
रीत्या उदितो योऽनवद्यो हृद्यः प्रसादस्तेन शोभनं मुखं यस्य स तादृशस्य ते यद्विलास-
हसितं समुज्जगाम समुद्रतम् । उत्पन्नमित्यर्थः ॥
 
तद्धसितं किमित्याह -
पूजार्थमम्बुजसहस्रमुपाहितं य-
देकं ततो हृतवतस्तव कैतवेन ।
 
Digitized by Google