This page has been fully proofread once and needs a second look.

२० स्तोत्रम् ]
 
तद्विलासहसितं किमित्याह-

 
येनोपमन्युमपमन्युमनन्यभाज-

माजन्मतृष्णजमजत्स्रमज श्रमार्तम् ।

आनन्दयः स्वयमदीननदीनदान -

भास्वन्महाफललसत्कुसुमोपमेन ॥ ३ ॥
 

 
न जातोऽजोऽनादिस्तत्संबोधनं हे अज अनादे, अपगतो मन्यू रोष: परद्रोहादिर्यस्य

स तादृशम् । तथा नान्यं विभुं भजतीत्यनन्यभाक् तादृशम् । तथा आजन्म जन्मारभ्य

तृष्णक् पिपासुस्तम् । अत एवाजस्रं श्रमेण खेदेनार्तं खेदकदर्थितमुपमन्युमुपमन्युमुनिं

बालं येन विलासहसितेन स्वयमानन्दयः सानन्दमकरोः । किंभूतेन हसितेन येन ।

अदीनोऽकातरो यो नदीनामिनः स्वामी समुद्रः क्षोरोदस्तस्य दानं तदेव भास्वद्भा-

स्वरं महाफलं तत्र लसच्छोभमानं यत्कुसुमं तस्योपमा यस्य तत्तादृशेन । क्षीरोददाना-

ख्यप्रदेनेत्यर्थः ॥
 

तद्धसितं किमित्याह-
स्तुतिकुसुमाञ्जलिः ।
 
२८१
 

 
येनापि तापविपदं प्रथमं जहर्थ

नाथ प्रसादसुभगेन भगीरथस्य ।

मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह-

निर्वापणेन पुनरस्य पितामहानाम् ॥ ४ ॥
 

 
हे नाथ शंभो, प्रसादेन सुभगं रम्यं तादृशेन येन विलासहसितेन भगीरथस्यापि

सगरवंशजस्य तापविपदं तापो मदीयपितामहाः कपिलमुनीश्वरशापदग्धा निरये पतिता

इति यः पश्चात्तापः स एव विपत्ताम् । प्रथमं भगीरथस्य राज्ञो निजभक्तस्य जहर्थ

हृतवानसि । पुनस्तदाराधनतुष्टेन भवता मूर्ध्ना धृता या त्रिदशसिन्धुर्गङ्गा तस्या यो

महाप्रवाहस्तेन यन्निर्वापणं शीतलीकरणं तेन । पुनरस्य भगीरथस्य पितामहानां सगर-

वंशजानां तापोऽतितृष्णासंताप एव विपत्तां जहर्थ । तेन भवत्प्रसादोपनतस्वर्गङ्गानीर-

प्रवाहेण तत्पितामहोद्धरणमकरोरित्यर्थः ॥
 

अत्र प्रसङ्गेन विभोः कालदाहापदानं वर्णयति -
 

 
उत्प्रासनाय शमनस्य मनस्यनल्प
-
 
उत्प्रासनाय शमनस्य मनस्यनल्प-

दर्पोद्गमप्रशमविक्लवविक्रमस्य ।
 

आश्वासनाय च समं समभावि येन
 

कीनाशपाशविवशस्य नरेश्वरस्य ॥ ५ ॥

 
'स्यादाच्छुरितकं हासः सोत्प्रासः' इत्यूर्ध्वं प्रकर्षेणासनं गमनमुत्प्रास आधिक्यम् ।
 
३६
 
Digitized by Google